________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 224 उपमितिभवप्रपञ्चा कथा / स्पर्शनः प्राणत्यागं विदधानो धारितो मैत्रीकरणेन पुनः सुन्दरतरं चौरं खण्डयोगतुल्यों हि वत्मयोरनयोः साढे संबन्धः / अकुशलमालया चिन्तितं अहो मे धन्यता भविष्यत्येतत्संबन्धेन मम यथार्थं नाम यो ह्यस्य स्पर्शनस्थानुकूलः स ममात्यन्तवल्लभः स एव च मां वर्द्धयति पालयति मदौयस्नेहफलं चानुभवति नेतरः बहुशोऽनुभूतपूर्वमेतन्या एष मदीयस्त नुरेनं प्रति मुखरागण गाढमनुकूलो लक्ष्यते / ततो भविष्यति मनोरथपूर्त्तिरिति विचिन्य तया बालं प्रत्यभिहितं वत्म सुन्दरमनुष्ठितं अवियोगो भवतु भवतः सुमित्रेणेति शुभसुन्दा चिन्तितं न सुन्दरः खल्वेष मम तनयस्य पापमित्रसम्बन्धः रिपुरेष परमार्थन कारणमनर्थपरम्परायाः शत्रुरयं ममापि महजो वर्तते कदर्थिताहमनेन बहुशः पूर्वं नास्त्येव मयास्य च महावस्थानं केवलमेतावानच चित्तसन्धारणाहेतुः यदेष मदीयपुत्रोऽमुं प्रति मुखच्छायया दृष्टिविकारेण च विरक्त व लक्ष्यते ततो न प्रभविष्यति प्रायेण ममायं पापो थदि वा न ज्ञायते किं भविष्यति विषमः खल्वेष दुरात्मा इत्याद्यनेकविकल्पमालाकुलमानसापि गंभौरतया मौनेनैव स्थिता शुभसुन्दरौ। अचान्तरे संजातो मध्यानः उपसंहृतमास्थानं गताः सर्वेऽपि स्वस्थानेषु तद्दिनादारभ्य प्रवर्द्धते बालस्य स्पर्शनेन सह स्नेहावन्धः चकितस्तिछति सर्वथा मनीषी न गच्छति विशंभं स्पर्शनस्तु सदा सन्निहिततया कुमारयोरन्तर्बहिश्च न पाश्वं मुञ्चति ततः पर्यटन्ति ते सहिता एव नानास्थानेषु कौडन्ति विविधकौडाभिस्ततो मनौषिणा चिन्तितं कीदृशमनेन स्पर्शनेन सह विचरतां सर्वत्राविश्रब्धचित्तानां For Private And Personal Use Only