________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 उपमितिभवप्रपञ्चा कथा / तथाहि / न शक्यः सहजात्सोढुं क्षमिणापि पराभवः / कतकेन हि निर्मुकः पाषाणोऽपि प्रलोयते // मानिनां मित्रविरहे जीवितं नैव युज्यते / इदं हि नश्यता तुणे वासरेण निवेदितम् // अहो ते मित्रवत्सलता अहो ते स्थिरानुरागः अहो कृतज्ञता अहो माहसं अहो निर्मिथ्यभावतेति भवजन्तोः पुनरहो क्षणरक्तविरक्तता अहो ते कृतघ्नता अहो अलौकिकलं अहो मूढता अहो खरहृदयत्वं अहो अनार्यानुष्ठानप्रवृत्तिरिति केवलमेवमपि स्थिते ब्रवौम्यहमत्र किंचित्तदाकर्णयत भद्रः / स्पर्शनेनाभिहितं वदतु निर्विकल्पमार्यः / बालेनाभिहितम्। अलब्धप्रतीकाराणामभिमानावलम्विनाम् / खेहैकबद्धकक्षाणां युक्रमेतद्भवादृशाम् // तथापि मदनुग्रहेण धारणौया भद्रेण प्राणा इतरथा ममापौयमेव गतिः रञ्जितोऽहमनेन भवतो निष्कृत्रिममित्रवात्सल्येन दाक्षिण्यमहोदधयश्च सत्पुरुषा भवन्ति सत्पुरुषश्च भट्रकार्यतो गम्येत / अतः कर्त्तव्यमेवैतत् निर्विचारं ममाकं वचनं भद्रेण। यद्यपि चूतमनोरथा न चिञ्चिनिकया पूर्यन्ते तथापि मदनुकम्पया भवता मत्मबन्ध एव भवजन्तुविरहदुःखप्रतीकारबुड्या मन्तव्यः / स्पर्शनेनाभिहितम् / माधु आर्य माधु धारिता एव भवतानुपकृतवत्मलेनातिखिग्धवचनामृतसेकेनानेन स्वयमेव विलीयमाना मदीयप्राणाः। किमत्र वक्तव्यं नष्टौ मेऽधुना शोकसन्तापौ विस्मारित इव भवता For Private And Personal Use Only