SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 221 कथंचिदापने तस्मिन्करोति प्रायश्चित्तं सहते माघमासे गोतं टण्हाति ज्येष्ठाषाढयोरातपं सर्वथा परमवैरिक व यद्यत्किंचिन्मे प्रतिकूलं तत्मर्वमाचरति ततो मया चिन्तितं परित्यक्तस्तावत्सर्वथाहमनेन ग्टहीतश्च शत्रुबुया तथाप्यामरणान्ताः प्रणयाः सज्जनानामिति वृद्धवादः / ततो यद्यप्ययमनेन सदागमपापमित्रेण विप्रतारितो मामेवं कदर्थयति तथाप्यकाण्ड एव न मया मोक्तव्यो यतो भद्रकोऽयं ममात्मीयप्रकृत्या लक्षितो बहुना कालेन कृतानि भूयांसि ममानुकूलानि सदागममेलकजनितोऽयमस्य विपर्यासः / तत्कदाचिदपगच्छत्येष कालेन ततो भविष्यति ममोपरि पूर्ववदस्य स्नेहभावः / एवं पर्यालोच्य व्यवस्थितोऽहं बहिष्क्रतोऽपि तेन भवजन्तुना तस्यैव सम्बन्धिनि शरीराभिधाने प्रासादे महादुःखानुभवेन कालमुदीक्षमाणो दुराशापाशावपाशितः सन् कियन्तमपि कालमिति / अन्यदा सदागमवचनमनुवर्तमानस्तिर स्वात्य मां पुरुषक्रियया निष्कास्य ततोऽपि प्रासादात्परमाधार्मिक व निघृणतथा मामाक्रन्दन्तं तमवगणय्य रुष्ट इव तत्र यास्यामि यत्र भवन्तं लोचनाभ्यां न द्रक्ष्यामौत्यभिधाय गतः कुत्रचित्म चेदानौं निईतौ नगयों प्राप्त: श्रूयते मा च मादृशामगम्या नगरौ ततो मया चिन्तितं किमधुनापि मम प्रियमित्रपरिभूतेन तदिरहितेनाजागलस्तनकल्पेन जौवितेन ततश्चेदमध्यवसितमिति / बालेनाभिहितं साधु स्पर्शन माधु स्थाने भवतो व्यवसायः दुःसहं हि प्रियमित्रपरिभवदुःखं तद्विरहसन्तापश्च न शक्यतेऽन्यथा यापयितुम् / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy