________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 216 उपमितिभवप्रपञ्चा कथा / कर्मपरिणामः तस्य हि शुभपरिणामस्य कर्मपरिणामेनैव भटभुक्त्या दत्तं तन्नगरम् / अतस्तदायत्तोऽसौ वर्त्तते तातेनाभिहितं आर्य किं भवत्यसौ कर्मपरिणामो मादृशामभ्यर्थनाविषयो जिनमतज्ञेनाभिहितं महाराज नैतदेवं स हि यथेष्टकारी प्रायेण नापेक्षते सत्पुरुषाभ्यर्थनां म रज्यते सदुपचारवचनेन न ग्टह्यते परोपरोधेन नानुकम्पते दृष्ट्वाप्यापगतं जनं केवलममावपि कार्य विदधानः पृच्छति महत्तमभगिनौं लोकस्थितिं पर्यालोचयति स्वभार्या कालपरिणतिं कथयत्यात्मीयमहत्तमाय स्वभावाय / अनुवर्तते नन्दिवर्द्धनकुमारस्य समस्तभवान्तरानुयायिनौं प्रच्छन्नरूपां भायाँ भवितव्यतां बिभेति कियन्माचं नन्दिवर्द्धनकुमारवीर्यादपि स्वप्रवृत्तौ। ततश्चैवंविधमन्तरङ्गपरिजनं स्वसंभावनया सन्मान्य एष कर्मपरिणाममहाराजः कार्यं कुर्वाणो न बहिरङ्गलोकं रटन्तमपि गणयति किंतर्हि यदात्मने रोचते तदेव विधत्ते तस्मानायमभ्यर्थनोचितः किंतु यदास्य प्रतिभासिष्यते तदा स्वयमेव कुमाराय दापयिष्यति शुभपरिणामेन शान्तिदारिकामिति / तातेमाभिहितं आर्य हतास्तर्हि वयं यतो न ज्ञायते कदा चित्तस्य प्रतिभासिष्यते अस्मिंश्चानपमारिते पापमित्रे कुमारस्य समस्तगुणविफलतया न किंचिदस्माकं जौवतीति कला जिनमतज्ञेनाभिहितं महाराजालं विषादेन किमत्र क्रियते यदौदृशमेवेदं प्रयोजनमिति / तथाहि नरः प्रमादौ शक्येऽर्थ स्थादुपालम्भभाजनम् / अशक्यवस्तुविषये पुरुषो नापराध्यति // For Private And Personal Use Only