________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21. उपमितिभवप्रपञ्चा कथा। निग्रहे दत्तावधानः शिष्टपरिपालने परिपूर्ण: कोशदण्डसमुदयेन शुभपरिणामो नाम राजा / यतोऽसौ सर्वलोकानां चित्तसन्तापवारकः / तथा संपर्कमात्रेण महानन्दविधायकः // सदनुष्ठानमार्गेऽपि जन्तूनां स प्रवर्तकः / अतो वौरजनैलॊके हितकारी निगद्यते // रागद्वेषमहामोहक्रोधलोभमदभ्रमाः / कामाशोकदैन्याद्या ये चान्ये दुःखहेतवः // दुष्टचेष्टतया नित्यं लोकसन्तापकारिणः / तेषामुद्दलनं राजा म कुर्वन्नवतिष्ठते // ज्ञानवैराग्यसंतोषत्यागसौजन्यलक्षणाः / ये चान्ये जनताल्हादकारिणः शिष्टसंमताः // तेषां स राजा सततं परिपालनतत्परः / अस्ति निःशेषकर्त्तव्यव्यापारविमुखः सदा // धौधतिम्मतिसंवेगशमाद्यैः परिपूर्यते / भाण्डागारं यतस्तस्य गुणरत्नैः प्रतिक्षणम् // दण्डश्च वर्द्धते तस्य चतुर्भेदबलात्मकः / शौलाङ्गलक्षणनित्यं रथदन्तिहयादिभिः // दुष्टानां निग्रहामनः शिष्टानां परिपालकः / कोशदण्डसमृद्धश्च तेनासौ गौयते नृपः // तस्य च शुभपरिणामस्य राज्ञो ग्टहीतजयपताका शरीरसौन्दर्यण विनिर्जितभुवनत्रयकलाकलापकौशलेनापहसितरतिवि For Private And Personal Use Only