________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीयः प्रस्तावः / 206 एवात्र परमुपायो विद्यते दुर्लभश्चासौ प्रायेण / तातेनाभिहितं कीदृशः स इति कथयनार्यः। जिनमतज्ञेनाभिहितं महाराजाकर्णय / अस्ति रहितं सर्वोपद्रवैर्निवासस्थानं समस्तगुणानां कारणं कल्याणपरंपराया दुर्लभं मन्दभागधेयश्चित्तसौन्दर्य नाम नगरम्। तथाहि / वसतां तत्र लोकानां नगरे पुण्यकर्मणाम् / रागादिचरटाः सर्वे जायन्ते नैव बाधकाः // यतश्च क्षुत्पिपासाद्या बाधन्ते तत्र नो जनम् / ततस्तदुच्यते धौरैः सर्वोपद्रववर्जितम् // ज्ञानादिभाजनं लोकस्तदशेनैव जायते / कलाकलापकौशल्यं न ततोऽन्यत्र विद्यते / भवन्यौदार्यगाम्भौर्यधैर्यवीर्यादयो गुणाः / वसतां तत्र तत्सर्वगुणस्थानमतो मतम् // यतश्च वसतां तत्र धन्यानां संप्रवर्तते / उत्तरोत्तरभावेन विशिष्टा सुखपद्धतिः // न च संपद्यते तस्याः प्रतिपातः कदाचन / कल्याणपद्धतेहेतरतस्तनगरं मतम् // सर्वोपद्रवनिमुक्त समस्तगुणभूषितम् / कल्याणपद्धतेर्हेतुर्यत एव च तत्पुरम् // अतएव मदानन्दं तत्मपुण्यनिषेवितम् / नगरं चित्तसौन्दर्यं मन्दभाग्यैः सुदुर्लभम् // मत्र च नगरेऽस्ति हितकारी सर्वलोकानां कृतोद्योगो दुष्ट 27 For Private And Personal Use Only