________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 उपमितिभवप्रपञ्चा कथा / प्रवर्तन्ते तत्र भावेन / संपादयन्ति क्रियण / तदिदमत्र प्राप्तकालमिति विचिन्त्य तेनाभिहितं कुमार। एवमेतत्कः खल्वत्र सन्देहः / यच्च ग्टहौतहृदयमद्भावानामपि मादृशां पुरतः कुमारोऽप्येवं मन्त्रयति / महाप्रमादोऽत्र कारणम्। म हि हर्षात्कर्षाजातार्थमपि वाक्यं बलाझाणयति / तत्किमनेन करोमि कुमारस्थाहमक्षयान प्राणान्। एष एवमेतन्नियोगो मयाभिहितम् / कथं तेनोनं जानाम्यहं किंचिद्रमायनम् / मयाभिहितं करोतु वरवयस्थः / तेनोक्र यदाज्ञापयति कुमारः। ततः कृतानि तेन क्रूरचित्ताभिधानानि वटकानि समुपनौतानि मे रहसि वर्तमानस्य / अभिहितश्चाहं कुमार एतानि मदौयसामर्थ्यप्रभवानि वर्तन्ते वटकानि / कुर्वन्त्युपयुज्यमानानि वौर्यात्कर्षसंपादनेन पुरुषस्य मवें यथेष्टं दौर्घतरं चायुकम् / तस्माद् ग्टहाण त्वमेतानि / अत्रान्तरे लघुध्वनिना कक्षान्तरस्थितेन केनाप्यभिहितम् / भविष्यति नवाभिमते स्थाने कोऽत्र सन्देहः / न श्रुतं तन्मया / श्रुतं वैश्वानरेण / ततः संपत्स्यते मम समौहितम् / यास्थत्येष वटकोपयोगेन महानरके / भविष्यति तत्र गतस्थास्य दौर्घमायकम् / कथमन्यथैवं विधः शब्दो महानरक एव ममाभिहितं स्थानमिति भावनया तुष्टोऽसौ चित्तेन / मयामिहितं किं न संपद्यते मे भवादृशि वरमित्रेऽनुकूले / तदाकर्ण्य द्विगुणतरं परितुष्टोऽसौ समर्पितानि वटकानि ग्टहौतानि मया / अभिहितं च तेन कुमारायमपरो मम प्रसादो विधेयः कुमारेण यदुत For Private And Personal Use Only