________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 203 ततस्ते समुदिनाः कम्पमाना बन्धनागारगता इव महादुःखेन जननौजनकानुरोधेन कलाग्रहणं कुर्वन्तः कालं नयन्ति / न कथथन्ति तं व्यतिकरं कलाचार्याय मा भृत्सर्वेषां प्रलय इति भावनया / तथापि नित्यमन्निहितत्वालक्षयत्येव तन्मामकं चेष्टितं सकलं कलाचार्यः / केवलं दारकेषु दृष्टविपाकतया भयेन वस्तहदयोऽसावपि न मम संमुखमपि शिक्षणार्थं निरीक्षिते / यदि पुनरन्यव्यपदेशेनापि मां प्रत्येष किञ्चिद् ब्रूयात्ततोऽहमेनमपि कलाचार्यमाक्रोशामि ताडयामि च / ततोऽमावपि मम राजदारकववर्त्तते / ततो महामोहदोषेण मया चिन्तितम् / अहो मे वरमित्रस्य माहात्म्यातिशयः / अहो हितकारिता। अहो कौशलम् / अहो वत्सलता। अहो स्थिरानुरागः / यदेषसमालिङ्गानदारेण मम मौर्यतां संपाद्य मामेवं सर्वत्राप्रतिहताशं जनयति / न च मां क्षणमपि मुञ्चतौति। तदेष मे परमो बन्धुरेष परमं शरीरमेष मे सर्वस्वमेष मे जीवितमेष एव मे परं तवमिति / अनेन रहितः पुरुषोऽकिंचित्करतया राणपुरुषान विशिष्यते / ततश्चैवंविधभावनया संजातो मम वैश्वानरस्योपरिस्थिरतानुरागः / अन्यदा रहसि प्रवृत्ते तेन सह विषम्भजल्ये मयाभिहितं वरमित्र किमनेन बहुना जल्पितेन युभदायता मम प्राणास्तदेते भवता यथेष्टं नियोजनौया इति / ततश्चिन्तितं वैश्वानरेण अये सफलो मे परिश्रमो यदेष मम वशवत्तौं वर्त्तते / दर्शितोऽनेनैवं वदता निर्भरोऽनुरागः / अनुरकाश्य प्राणिनः समाकर्णयन्ति वचनम् / टपहन्ति निर्विकल्पम् / For Private And Personal Use Only