SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 202 उपमितिभवप्रपञ्चा कथा / प्रधानः कसाचार्यः / पूजितोऽसौ विधिना / कृतमुचितकरणोयम्। समर्पितोऽहं तस्य पिचा महतादरेणेति। समर्पिताच मदीयभ्रातरोऽन्येऽपि बहवो राजदारकाः प्रागेव तस्य कलाचार्यस्य / ततस्तैः मार्द्धमहं प्रवृत्तः कलाग्रहणं कर्तुम् / ततः संपूर्णतया मापकरणानां गुरुतया तातोत्साहनस्य हिततया कलाचार्यस्य निश्चिनतया कुमारभावस्य सन्निहिततया पुण्योदयस्थोत्कटतया क्षयोपशमस्थानुकूलतया तदा भवितव्यताया अनन्यहृदयतया मया ग्टहीतप्रायः स्वल्पकालेनैव मकलोऽपि कलाकलापः / केवलमतिवल्लभतया सदा मन्निहितोऽसौ वैश्वानरः सनिमित्तमनिमित्तं वा करोति मम समालिङ्गमम् / ततस्तेन समालिङ्गितोऽहं न स्मरामि गुरूपदेशम् / न गणयामि कुलकलङ्कम् / न बिभेमि तातमनःखेदस्य / न लक्ष्यामि परमार्थम् / न जानाम्यात्मनोऽन्तस्तापम् / न वेद्मि कलाभ्यामनिरर्थकत्वम् / किन्तु त मेव वैश्वानरमेकं प्रियं कृत्वा तदुपदेशेन गलत्स्वेद बिन्दुरनौकृतलोचनो भुनभृकुटिः करोमि समस्तदारकैः मह कलहं विदधामि सर्वेषां मोद्धाटनम् / उच्चारयाम्यसत्यवचनानि / न क्षमे तेषां मध्यस्थमपि वचनम् / ताडयामि प्रत्येकं यथा सन्निहितेन फलकादिना। ततस्ते सर्वेऽपि वैश्वानरालिङ्गितं मामवलोक्य भयेन वस्तमानमाः सन्तो वदन्यनुकूलं कुर्वन्ति चाटूनि पाराधयन्ति मां पादपतनैः / किं बहुना / मदीयगन्धेनापि ते वीर्यवन्तोऽपि राजदारका नागदमनौहतप्रतापा दूव विषधरा न स्वतन्त्र श्रेष्टन्ते / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy