________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 201 निवारितेन / निर्दिष्टश्चाहमस्य भवितव्यतया / महचरत्वेनावर्जितश्वाहमनेन करिरूपतायां वर्तमानेन वेदनासमुहातेऽपि निश्चलतया माध्यस्थभावनया / तस्मादेव नन्दिवर्द्धनकुमारः पापमित्रमङ्गतिपरोऽपि नाकाण्ड एव मम तावन्मोक शुक्र इति पर्यालोच्यासौ पुण्योदयो रुष्टोऽपि मम पार्श्व तदा प्रच्छन्नरूपतया मदा तिष्ठत्येव / जात्याश्चान्येऽपि वहिरङ्गा मम बहवो वयस्याः / ततस्तैः मार्द्धमनेकक्रीडाभिः क्रीडन्नहं प्रवर्द्धितं प्रवृत्तः / प्रस्तुते च क्रौडने मत्तो महत्तमा अपि डिम्भाः प्रधान कुलजा अपि पराक्रमवन्तोऽपि मां वैश्वानराधिष्ठितमवलोक्य भयेन कम्पन्ते गच्छन्ति च मम प्रणतिं कुर्वन्ति चाटुकर्माणि प्रतिपद्यन्ते पदातिभावं धावन्ति पुरतो न प्रतिकूलयन्ति मदचनम् / किं बना / लिखितादपि मत्तो बिभ्यतीति / तस्य च सर्वस्यापि व्यतिकरस्या चिन्त्यमाहात्म्यतया प्रच्छन्नरूपोऽपि पुण्योदयः कारणम् / मम तु महामोहवशात्तदा चेतसि परिस्फुरितम् / यदुत तदेते वृहत्तमा अपि डिम्भा ममैवं कुर्वाणा वर्तन्ते सोऽयमस्य वरमित्रस्य वैश्वानरस्य गुण: / यतोऽयं मन्निहितः / सन्नात्मौयमामर्थ्येन वर्द्धयति मम तेजस्विताम् / करोत्युत्माहम् / प्रोज्वलयति बलम् / संपादयत्योजः। स्थिरीकरोति मनः। जनयति धौरताम् / विधत्ते शौण्डीरताम् / किंबहुना। समस्तपुरुषगुणर्मामेष योजयति / ततोऽनया भावनया संजातो वल्लभतरो मे वैश्वानरः / ततः संजातोऽहमटवार्षिकः / समुत्पन्ना पद्मनृपते श्चिन्ता ग्राह्यतामधुना कुमारः कला इति / ततो निरूपितः प्रशस्तदिवमः / समाहृतः 26 For Private And Personal Use Only