________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः। भवन्तौ तौवापि वेदना / स्थितस्तदवस्थः सप्तराचं यावत् / अत्रानरे तुष्टा ममोपरि भवितव्यता / ततस्तयाभिहितम् / मावार्यपुत्र साधु शोभनस्तेऽध्यवमायः / तितिक्षितं भवता परमं दुःखम्। तुष्टाहमिदानौं भवतो ऽनेन चेष्टितेन नयामि भवन्तं नगरान्तरे। मयाभिहितम् / यदाज्ञापयति देवी। ततो दर्शितस्तया सुन्दराकारः पुरुषः / अभिहितश्चायं यथार्यपुत्र तुष्टया मयायमधुना भवतः महायो निरूपितः पुण्योदयो नाम पुरुषस्तदनेन मह भवता गन्तव्यम् / मयाभिहितं यदाज्ञापयति देवौ / अत्रान्तरे जीर्णा मे पूर्वदत्ता गुडिका / ततः प्रयुक्तान्यागुडिका भवितव्यतया / अभिहितं च तया / यथार्यपुत्र तव गतस्थायं पुण्योदयस्ते प्रच्छन्नरूपः सहोदरः महचरश्च भविष्यतीति / एवं च वदति संसारिजौवे भव्य पुरुषः प्रज्ञाविशालायाः कर्णाभ्यर्ण स्थित्वेदमाह / यथाम्ब कोऽयं पुरुषः किं वानेन कथयितमारब्धम् / कानि चामूनि असंव्यवहारादौनि नगराणि का चेयं गुडिका / यैकैकवासके प्रयुका मतौ नानाविधरूपाणि कारयति / विविधसुखदुःखादिकार्याणि दर्शयति / कथं वा पुरुषस्येयन्तं कालमेकस्यावस्थितिः / कथं चासंभावनौयानि मनुव्यस्थ सतः कृमिपिपीलिकारूपाणि जायेरन् / तदिदं सकलमपूर्वालजालकल्पमस्य तस्करस्य चरितं मम प्रतिभासते तत्कथयाम्बिके कोऽस्य भावार्थ इति / प्रज्ञा विशालयोक्तम् / वत्स यदस्येदानौंतनं विशेषरूपमुपलभ्यते तन्नानेन कथितम् / किं तर्हि मामान्यरूपेण संसारिजौवनामायं For Private And Personal Use Only