________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 उपमितिभवप्रपञ्चा कथा। पुरुषोऽतस्तदेवानेनात्माभिधानमाख्यातमनेन चात्मचरितम् / सर्वमिदं घटमानकमेव निवेदयितुं प्रक्रान्तम् / तथाहि / असांव्यवहारिकजीवराशिरत्रासंव्यवहारनगरम् / एकेन्द्रियजातयः पञ्चापि पृथिव्यप्तेजोवायुवनस्पतिरूपास्तेषां स्थानं एकाक्षनिवासम्। विकलेन्द्रियाणां द्वौन्द्रियत्रौन्द्रियचतुरिन्द्रियलक्षणानां स्थानं विकलाक्षनिवासम्। पञ्चेन्द्रियं तिरश्चां निलयः पञ्चाक्षपएसंस्थानम् / एकजन्मप्रायोग्यं कर्म प्रकृतिजालमेकभववेद्या गुडिकेत्युच्यते / तदुदयेन भवन्येव नानाविधरूपाणि / संपद्यन्ते एव विविधसुखदुःखानि कार्याणि / अजरामरश्चायं परुषः / ततो युक्रमेवास्यानन्तमपि कालमवस्थानं संसारिजौवस्य चात्र भद्र भवत्येव कृमिपिपीलिकादिरूपाणि / किमत्राश्चर्यमथवा मुग्धबुद्धिरद्यापि वत्मो न जानौते यदस्य स्वरूपम् / वत्म न संभवत्येव भवनोदरे तत्संविधानकम्। यदस्य संसारिजीवस्य संबन्धिना चरितेनावतरति। तद्वत्स निवेदयतु तावदेषः सर्वं यथावृत्तम्। पश्चात्तवाहमस्य भावार्थं निराकुला कथयिष्यामि / भव्यपुरुषेणोक्तम् / यदाज्ञापयत्यम्बेति / उत्पत्तिस्तावदस्यां भवति नियमतो वर्यमानुय्यभूमौ भव्यस्थ प्राणभाजः समयपरिणतेः कर्मणश्च प्रभावात् / एतञ्चाख्यातमत्र प्रथममनुततस्तस्य बोधार्थमित्थं प्रक्रान्तोऽयं समस्तः कथयितमतलो जीवसंमारचारः // सच मदागमवाक्यमपेक्ष्य भो जडजनाय च तेन निवेद्यते / For Private And Personal Use Only