________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः। 163 एवं च स्थिते / शेषेषु सर्वस्थानेषु गत्वा गत्वान्तरान्तरा / मया तत्र पुरेऽनन्ताः कृता रूपविडम्बनाः // कालतस्तु / स्थितश्च नैरन्तर्येण परं पल्योपमत्रयम् / अहं तत्र पुरे किं चित्माधिकं पूर्वकोटिभिः / / अमंजिमंजिरूपेण पर्याप्तरभेदतः / तदेवं नगरे तत्र नानाकारैर्विडम्बितः // अन्यदा कुरङ्गरूपः संपादितोऽहं भवितव्यतया / स्थितो यूथमध्ये तरलिततारं भयेन निरीक्षमाणो दशापि दिश उत्प्लवमानस्तरुशिखराणौतश्चेतश्च पर्यटामि। यावदेकेन लुब्धककुमाकरण कलध्वनिना प्रारब्धं गौतम् / ततस्तेनाचितं मृगयूथम् / परित्यकमुत्प्लवनं / निरुद्धा चेष्टा / निश्चलौकृतानि लोचनानि / निवत्तः शेषेन्द्रियव्यापारः / संजातः कर्णन्द्रियमात्रनिमनोऽन्तरात्मा / ततो निष्पन्दमन्दीभूतं तत्तादृशं हरिणयथमवलोक्याभ्यर्णीभूतो व्याधः / प्रगुणीकृतं कोदण्डम् / मन्धितस्तत्र शिलीमुखः / बद्धमालौढं स्थानकम् / ईषदाकुञ्चिता कन्धरा / समाकृष्टो बाण: कर्णान्तं यावत् / ततो मुक्तेन तेनारामागे वर्तमानोऽहं निर्भिद्य पातितो भूतले / अचान्तरे जौर्ण मे पूर्वदत्ता गुडिका / ततो जीर्णायां तस्यां हरिणभवनिबन्धनभूतायामेकभववेद्यायां गुडिकायां दत्ता ममान्या गुडिका भवितव्यतया। संपन्नस्तन्माहात्म्येनाहं करिवररूपः / वर्द्धितः कालक्रमेण संजातो यथाधिपतिः / ततः For Private And Personal Use Only