________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 उपमितिभवप्रपञ्चा कथा। पञ्चाक्षो नाम विख्यातो गुडिकायाः प्रभावतः / रटत्युच्चैर्विना कार्य दर्दुराकारधारकः / केलिप्रियतया तत्र भार्ययाहं विनाटितः // तत्र च सन्मूर्छनजमध्ये / रूपैरेवममांख्येयैर्धमयित्वा ततस्तया / विहितो गर्भजाकारधारकोऽहं महेलया / ततश्च जलचरेषु वर्तमानः / ग्टहीतो धीवरैस्तत्र बिधाणो मत्स्यरूपताम् / छेदपाकादिभिर्दुःखं प्रापितोऽहं सहस्रशः // तथा चतुष्पदस्थलचरेषु वर्तमानस्य / .. शशसूकरमारङ्गरूपमाबिभ्रतो मम / व्याधैर्भित्वा शरैर्गात्रं कृता नाना विकतनाः // तथा भुजपरिसरःपरिसर्पषु वर्त्तमानेन / गोधाहिनकुलादीनां रूपं धारयता चिरम् / अन्योन्यभक्षणद् दुःखं प्राप्तं क्रूरतया मया // तथा / काकोलकादिरूपाणां पक्षिणां मध्यचारिणम् / संख्यातीतानि दुःखानि मोढानि सुचिरं मया // असंख्यजनसङ्कीर्णं तदेवं तत्र पत्तने / जलस्थलनभचारी मंजातोऽहं कुले कुले // अन्यच्च तस्मिन् पञ्चाक्षपशुसंस्थाने नगरे। मताष्टवारारूपाणि नैरन्तर्यण कारितः / नौतस्ततोऽन्यस्थानेषु तत्रानौतः पुनस्तया // For Private And Personal Use Only