________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः / भूयो भूयश्च तेष्वेव पाटकेषु विवर्त्तनम् / संख्यातीतानि वर्षाणां सहस्राणि विधापितः // एवं च स्थिते / कचित्पर्याप्तरूपेण तथापर्याप्तरूपकः / तेषु त्रिवपि पत्न्याऽहं पाटकेषु विनाटितः // .. अथान्यदा प्रहृष्टेन चेतमा भवितव्यता। ज्ञात्वा तदुचितं कालं ततः सेत्थदमभाषत / आर्यपुत्र भवन्तं किं नयामि नगरान्तरम् / विकलाक्षनिवासेऽत्र नगरे नास्ति ते तिः // मयोकं देवि यत्तुभ्यं रोचते तद्विधीयताम् / किमच बहुना त्वं मे प्रमाणं सर्वकर्मस // ततो जीणीं मम ज्ञात्वा गुडिकामन्तवर्तिनीम् / नगरान्तरयानाय प्रयुक्ता गुडिका तया // अथोन्मार्गापदेशस्य प्रतिजागरणे स्थितम् / पञ्चाक्षपशुसंस्थानं नामास्ति नगरं परम् // तत्र मा त्रिपञ्चाशत्कोटीलक्षप्रमाणके / वमन्ति कुलसंघाते लोकाः पञ्चाक्षनामकाः // जलस्थलनभश्चराः स्पष्टचैतन्यसंयुताः / संजिनस्तेऽभिधीयन्ते गर्भजा इति वा बुधैः // ये पुनस्तत्र विद्यन्ते स्पष्टचैतन्यवर्जिताः / অগ্নিল রনি জ্ঞানাৰ স্বচ্ছলতা লা: ततोऽहं तेषु संभातः स्पष्टचैतन्यवर्जितः / For Private And Personal Use Only