SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 उपमितिभवप्रपञ्चा कथा। कावातो मण्डलिकावातो गुञ्जावातो झज्ञावातः संवर्तकवातो घनवातस्तनुवातः शुद्धवात इत्यादिभिरभिधानः / समुद्भूतानि तत्र मे शस्त्राभिघातनिरोधादीनि नानादुःखानि / विनाटितस्तत्रापि सूक्ष्मबादरपर्याप्तकापर्याप्तकाकाररूपतयाघूर्णमानोऽसंख्येयं कालं भवितव्यतया / दूतस्तदवमाने जाते पर्यन्तगुडिकाजरणे दत्त्वापरां गुडिकां पुनर्नोतोऽहं प्रथमपाटके भवितव्यतया / स्थितस्तत्र पुनरनन्तं कालम् / ततः पुनरपरापरएडिकाप्रयोगेणैव प्रापितो द्वितीयादिपाटकेषु / स्थितश्चैकैकस्मिन्त्रसंख्येयं कालम् / ततश्चानेन प्रकारेण तस्मिवेकाचनिवासे नगरे कारितोऽहमनन्तवाराः ममस्तपाटकपर्यटनविडम्बनं तौबमोहोदयात्यन्तावोधयोः समदं भवितव्यतया / अन्यदा मनाक् प्रसन्नचित्तयाऽभिहितं यथार्यपुत्र स्थितो भूयांसं कालं त्वमत्र नगरे ततोऽपनयामि भवतः स्थानाजौर्णम् / नयामि भवन्तं नगरान्तरे। मयोकं यदाज्ञापयति देवी। तत्र प्रयुक्रा गुडिका भवितव्यतया। दूतश्चास्ति विकलामनिवासं नाम नगरम् / तत्र च त्रयप्रधानपाटका विद्यन्ते / तस्य नगरस्य परिपालकः कर्मपरिणाममहाराजनियुक्त एवोन्मार्गोपदेशो नाम महत्तमः / तस्य च माया नाम रहिणौ। ततोऽहं गुडिकामाहात्म्येन प्राप्तस्तत्र प्रथमे पाटके। तस्मिंश्च सप्तकुलकोटिलक्षवर्त्तिनोऽसंख्येया दिहषीकाभिधानाः कुचपुत्रकाः प्रतिवसन्ति / ततोऽहमपि संपन्नस्तेषां मध्ये विहषौकः / ततो ऽपगता मे मा सुप्तमत्तमृच्छितमृतरूपता। जातो मनागभिव्यक्त चैतन्यः / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy