________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दितीयः प्रस्तावः / 187 खण्डनदहजादौनि दुःखानि। ततः पर्यन्तराडिकाजरणावसाने दत्ता भवितव्यतया ममान्या गुडिका गतोऽहं तन्माहात्म्येन हतीये पाटके / तत्र चाप्याभिधानाः कुटुम्बिनः प्रतिवसन्ति / ततो ममापि तत्र गतस्य संपन्नमाप्यरूपम् / विगोपितस्तत्राप्यहं जीर्णायां जीर्णयामपरापरां गुडिकां दत्त्वारूपान्तरं संपादयन्या भवितव्यतया असंख्येयमेव कालम् / तथाहि / कृतोऽहमवश्यायहिममहिकाहरतनुशद्धोदकाधनेकभेदरूपो रूपरसगन्धस्पर्शभेदेन विचित्राकारस्तया। मोढानि च तत्र पाटके वर्तमानेन मया शीतोष्णक्षारक्षत्राद्यनेकशस्त्रसंपाधानि नानादुःखानि / ततस्तत्काञ्चपर्यन्ते जीर्णायामन्यगुडिकायां दत्ता ममापरा गुडिका भवितव्यतया / गतोऽहं तत्तेजमा चतुर्थे पाटके तत्राप्यसंख्येयास्तेजस्कायनामानो ब्राह्मणाः प्रतिवमन्ति / ततोऽहमपि तेषां मध्ये भाखरो वर्णन उष्णः स्पर्णेन दाहात्मकः कायेन शुचिरूपः स्थानेन संपन्नस्तेजस्कायो ब्राह्मणः / प्रवृत्तश्च मम तत्र वसतो ज्वालागारमुर्मुराचिरलातशुद्धानि विद्युदुल्कामनिप्रमतयो व्यपदेशाः / जातानि विध्यापनादितो नानादुःखानि / स्थितः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपतया विवर्त्तमानोऽसंख्येयं कालम् / दत्ता च तदन्ते ममापरा गुडिका पयर्न्तगुडिका जरणावसाने भवितव्यतया / गतोऽहं तदुपयोगेन पञ्चमपाटके / तराप्यसंख्येया वायवौथाभिधानाः चचियाः प्रतिवमन्ति / ततोऽहमपि तत्र गत उष्णशीतः स्पर्शन अलक्ष्यश्चक्षुमतां रूपेण पताकाकारः संस्थानेन संजातो वायवीयः क्षत्रियः / पाहतच तत्र वर्तमानोऽहमुत्कलि For Private And Personal Use Only