________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः / ततश्च / कृतोऽहं गुडिकादानद्वारेणैव ततस्तया / कृमिरूपोऽशचिस्थाने महापापः स्वभार्यया // मूत्रान्त्रक्लेदजम्बालपूरिते जठरे स्थितम् / मां पश्यन्ती विशालाक्षी ततः मा परितुष्यति // कदाचित्मारमेयादिदुर्गन्धित्रणकोटरे / मामन्यकृमिजालेन संयुतं वीक्ष्य मोदते // वापघसरायेषु लोलमानं सुदुःखितम् / मां दृष्ट्वा कृमिभावेन तुष्टाभूद्भवितव्यता // जलकाभावमापाद्य गुडिकादानतस्तथा / ममत्थं चाकरोदुःखं इसन्तौ सह मायया // माये पश्य मदीयस्य भर्तुः सामर्थ्यमौदृशम् / . बमुन्मार्गापदेशेन भर्चात्मा येन गर्विता // . क्षुधाती वारके चिप्तस्ततो निर्गत्य मत्पतिः / निःशेषं कर्षयत्येष व्रणारिं वौर्ययोगतः // अन्यच्च त्यागमामर्थ्यं पश्य भत्तुर्ममेदृशम् / यदेष रक्रसर्वस्खं ददते हस्तधारिणे // ततोऽग्टहीतसङ्केते भद्रे भार्या विडम्बितः / उपहासेन तेनाहं द्विगुणं दुःखमागतः // पुनश्च गुडिकां दत्त्वा कृत्वा शंखं महोदधौ / मामेषा शांखिकैछिवं रटन्तं वीक्ष्य तुष्यति // तदेवं पाटके तत्र वर्तमानः खभार्यया / For Private And Personal Use Only