________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः। 183 कृतेनोक तत्किमकाण्डे हसितम् / भवितव्यताह / अतएव यतो न किञ्चिदिदम् / बलाधिकृतेनोक्तम् / कथं भवितव्यताह मत्यमत्यन्ताबोधोऽसि यस्त्वमेनमपि व्यतिकरं मह्यं कथयसि / कृतोद्योगाहमेवंविधेष व्यतिकरेषु / लक्षयाम्यनन्तकालभाविनोऽपि सर्वव्यतिकरानहम् / किं पुनः सांप्रतिकान् / अतो निष्पयोजनवान्न किञ्चिदेतत्त्वदीयकथनं ममेति / अत्यन्ताबोधःप्राह / सत्यमिदम् / विस्मृतं मे तावकं माहात्म्यं मोढव्योऽयमेकोममापराधो भवत्या। अन्यच्च प्रस्थापय त्वमेव यत्र प्रस्थापनोचिता लोकाः / किं नो व्यापारेण / भवितव्यतयोक्तम् / एकस्तावदेष एव मदीयो भर्ता प्रस्थापनयोग्यः तथाऽन्ये च ये तज्जातीयाः / बलाधिकृतेनोक्तम् / बमेव जानौषे तत्किमत्रोकेन / ततो निर्गता भवितव्यता अागता मम समौपे कथितो व्यतिकरः / मयोक्तं यद्देवी जानौते / ततः समुच्चलितोऽहमन्ये च मज्जातीयास्तवियोगाभिप्रेतसङ्ख्यानुसारेण / उको च भवितव्यतया महत्तमबलाधिकृतौ / यदुत मया युवाभ्यां चामौभिः सह यातव्यम् / यतो भटदेवता नारोति न मोक्रव्यो मया संमारिजीवो यतश्चास्ति युवयोरपि प्रतिजागरणौयमेकाक्षनिवासं नाम नगरम् / तत्रामौभिलीकः प्रथमं गन्तव्यम् / अतो यज्यते युवाभ्यां महेवामौषां तत्रासितं नान्यथा / ततो यनवती जानौत इत्यभिधाय प्रतिपनं तवचनं महत्तमबलाधिकृताभ्याम् / प्रवृत्ताः सर्वऽपि समागतास्तदेकाक्षनिवासं नगरम् / तत्र च नगरे महान्तः पञ्च पाटका विद्यन्ते / ततोऽहमेकं पाटकं कराग्रेण दर्शयता तौबमोहोदयेनाभिहितः / भद्र संसारिजौव For Private And Personal Use Only