________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 उपमितिभवप्रपञ्चा कथा / तिष्ठ बमत्र पाटके / यतोऽयं पाटकोऽसंव्यवहारनगरेण बहुतरं तुल्यो वर्तते। ततो भविष्यत्यत्र तिष्ठतो तिरिति / तथाहि / यथा तचासंव्यवहारनगरे गोलकाभिधानानां प्रामादानां मध्यवर्त्तिनो ये निगोदाभिधाना अपवरकास्तेषु ये लोकाः प्रत्येकमनन्ताः संपीण्डिता: खेहानुबन्धेन प्रतिवमन्ति अत्रापि पाटके बहुतमा लोकास्तथैव प्रतिवमन्ति / केवलमसंव्यवहारनगरसम्बन्धिनो न क्वचिल्लोकव्यवहारेऽवतरन्तौति असंव्यावहारिका उच्यन्ते / ते हि यदि परं ययमिव भगवत्या लोकस्थितेरादेशेन महदेवान्यस्थानेषु गच्छन्ति नान्यथा / एते एतेन पुनरस्य पाटकस्य संबन्धिनोलोकाः कुर्वन्ति लोकव्यवहारम् / समाचरन्ति शेषस्थानेषु गमागमं तेन सांव्यवहारिक इत्यभिधीयन्ते / तथा तेषामसंव्यवहारनगरसंबन्धिनामनादिवनस्पतय इति सर्वेषामपि मामान्याभिधानम् / एतत्याटकसम्बन्धिनां तु वनस्पतय इत्येतावान् विशेषः / तथा प्रत्येकचारिणोऽपि प्रामादापवरकन्यायरहिता मुत्कवचारेणात्र विद्यन्ते तेऽसंख्येया लोकाः / ततस्तिष्ठ लमत्र पूर्वपरिचितनगरममान एवायं पाटकस्तवेति / ततो मयोक्तं यदाज्ञापयति देवः / ततः स्थापितोऽहमेकस्मिन्नपवरके शेषलोकास्तु केनचिन्मदीयविधानेनैव स्थापितास्तचैव पाटके केचिन्मुल्कलचारेण / केचित्पुनौताः पाटकान्तरेविति / ततोऽहं तत्र साधारणशरीरनाम्नि भने अपवरके पूर्वोक्किस्थित्यैव सुप्त इव मत्त व मूर्छित व मृत इवानन्तलोकः संपिण्डितैस्तैः ममकमुच्छूमन समकं निःश्वमन् ममकमाहारयन् समकं निरियन् स्थितोऽनन्त For Private And Personal Use Only