________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः / 181 प्रयोजनं कर्त्तव्यं ततस्तस्य तदा तत्र तथैव तावत्तदेव प्रयोजन रचयन्ती न त्रिभुवनेनापि निवारयितुं पार्यते / किं च यदि शक्रचक्रवर्त्यादीनामपि कथ्यते यथा भद्रिका भवतामुपरि भवितव्यतेति। ततस्तेऽपि तुष्यन्ति हृदये दर्शयन्ति मुखप्रसादं विस्फारयन्ति विलोचने ददति कथकाय पारितोषिकं कुर्वन्यात्मनि बहुमानं कारयन्ति महोत्सवं वादयन्यानन्ददुन्दुभिं चिन्तयन्यात्मनः कृतकृत्यतां मन्यन्ते सफलं जन्मेति। किं पुनः शेषलोका इति। अथ तेषामपि शकचक्रवर्त्यादौनां कथ्यते यथा न भद्रिका भवतामुपरि भवितव्यते ति। ततस्ते कम्पन्ते भयातिरेकेण / प्रतिपद्यन्ते दौनताम् / कुर्वन्ति क्षणेन कृष्णमुखम् / निमौलयन्ति वीक्षणे रुष्यन्ति कथकाय / समाध्यास्यन्ते चिन्तया / ग्टह्यन्ते रणरणकेन / परित्यजन्ति शोकातिरेकेणेतिकर्तव्यताम् / बालोचयन्ति तत्प्रसादार्थमनेकोपायान् / किं बहुना। न लभन्ते तस्यामनुष्ठायां मनागपि चित्तनिर्वृतिम् / कथमेषापि पुनः प्रगुणीभविष्यतीत्युद्धेगेन / किं पुनः मामान्यजना इति / मा पुनर्भगवती यदात्मने रोचते तदेव विधत्ते। न परं विज्ञापयन्तं विलपन्तं प्रतिकुर्वन्तं वापेक्षते / अहमपि तनयोधान्तचित्तो यदेव मा किञ्चित्कुरुते यथेष्टया चेष्टया तदेव बहु मन्यमानस्तस्याः पतिरपि कर्मकर इव जय देवि जय देवौति ब्रुवाणस्तिष्ठामि / , अपि च / ... मा सर्वत्र कृतोद्योगा मा ज्ञातभुवनोचिता / मा जागर्ति प्रसुप्तेषु मा सर्वस्य निरूपिका // For Private And Personal Use Only