________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः / स प्राह। सुष्टु दृष्टम्। ततः सहस्ततालमट्टहासेन विहस्य तीव्रमोहोदयनोकम् / पश्यत विमूढतां मदागमस्य / स हि किल सुग्रहौतनामधेयस्य देवस्य कर्मपरिणामस्य मंबन्धिनं लोकं निर्वाहयितुमभिलषति। न जानौते वराकस्तत्प्रमाणम्। तथा ह्यत्र नगरे तावदसंख्येयाः प्रासादास्तेषु प्रत्येकमसंख्येया एवापवरकाः / तेषु चैकैकस्मिन्ननन्तलोकाः प्रतिवमन्ति। अनादिरूढश्चास्य सदागमस्यायं लोकनिर्वाहणाग्रहरूपो ग्रहः / तथापि तेनेयता कालेन निर्वाहयता यावन्तोऽत्रैकस्मिन्नपवरके लोकास्तेषामनन्तभोगमा निर्वाहितम्। ततः केयं देवपादानां लोकविरलोभवनचिन्ता। तन्नियोगेनोक्तम् / सत्यमेतदस्त्येव चायं देवस्याप्यवष्टम्भः / विशेषतः पुनयुभवचनमेतदहं कथयिव्यामि / अन्यच्चोक्तं भगवत्या लोकस्थित्या यथा न भवता कालक्षेपः कार्यः / तत्संपाद्यतां शीघ्रं तदादेश इति / ततः स्थितावुत्मारके महत्तमबलाधिकृतौ। महत्तमेनोक्तम् / केऽत्र प्रस्थापना योग्या इति। अत्यन्ताबोधः प्राह / आर्य किमत्र बहुनालोचितेन ज्ञाप्यतामेष व्यतिकरो नागरलोकानाम् / दौयतां पटहकः। क्रियतां घोषण। यथा देवकर्मपरिणामादेशेन कियद्भिरपि लोकरितःस्थानात्तदीयशेषस्थानेषु गन्तव्यम् / अतो येषामस्ति भवतां तत्र गमनोत्साहस्ते खयमेव प्रवर्त्तन्तामिति / ततोऽनुकूलतया शेषस्थानानामुत्संङ्कलिता वयमिति च मत्वा भूयांसो लोकाः स्वयमेव प्रवर्तिव्यन्ते / ततो विशेषतो नेयलोकसंख्यां दृष्ट्वा तन्नियोगं तेषां मध्याद्येऽस्मभ्यं रोचिय्यन्ते तानेव तावत्संख्यान् प्रहिय्याम इति। महत्तमेनोक्तम्। भद्र For Private And Personal Use Only