________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 178 उपमितिभवप्रपञ्चा कथा / ममाविचलितरूपमेतदेव प्रयोजनमपेक्ष्य संरक्षणीयमसंव्यवहारं नाम नगरम् / ततो यावन्तः सदागमेन मोचिताः मन्तो मदौयभुक्नेनिर्गत्य नितिनगयों गच्छन्ति लोकास्तावन्त एव भगवत्या तस्मादसंव्यवहारनगरादानीय मदीयशेषस्थानेषु प्रचारणीयाः / ततः प्रचुरलोकतया सर्वस्थानानां सदागममोचितानां न कश्चिद्वार्तामपि प्रश्नयिष्यति / यतो न भवत्यस्माकं छायानानिरिति / ततो महाप्रसाद इति कृत्वा प्रतिपन्नः सोऽधिकारो लोकस्थित्या। अहं च यद्यपि देवपादोपजीवी तथापि विशेषतो लोकस्थितेः प्रतिबद्धः। अतएव तद्वारेण तन्नियोग इति प्रसिद्धोऽहं लोके / मोचिताच कियन्तोऽपि मांप्रतं सदागमेन लोकाः। ततोऽहं भगवत्या लोकस्थित्या युभन्मूलं तावतां लोकानामानयनायेह प्रहित इति / एतदाकर्य भवन्तः प्रमाणम् / ततो यदाज्ञापयति भगवतौति प्रतिपन्नं तच्छासनं महत्तमेन बलाधिकृतेन च / ततो महत्तमेनोक्तम् / भद्र तन्नियोग तावदुत्तिष्ठ दर्शयामो भद्रस्थासंव्यवहारनगरलोकप्रमाणम् / येन गतः सन् निवेदयसि त्वं देवपादेभ्यः। कालान्तरेऽपि येन न भवति तेषां लोकविरलोभवनचिन्ता। तन्नियोगेनोक्तं यदाज्ञापयत्यार्यः / ततः समुत्थितास्त्रयोऽपि नगरं निरीक्षितम् / दर्शिता: समुत्थितकरेण पर्यटता तौबमोहोदयेनासंख्येया गोलकनामानः प्रामादास्तन्नियोगस्य / तन्मध्यवर्त्तिनश्वासख्येया एव दर्शिता निगोदनामानोऽपवरकाः / तेच विवद्भिः माधारणरौराणौत्यभिधीयन्ते। तदन्तर्भूताश्च दर्शिता अनन्ता लोकाः। ततो विस्मितस्तन्नियोग उको महत्तमेन भद्र दृष्टं नगरप्रमाणम् / For Private And Personal Use Only