________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः / 177 प्रतीहारभूमौ तिष्ठति तदेवमवस्थिते देवः प्रमाणमिति। ततो निरीक्षितं तौबमोहोदयेन समभ्रममत्यन्ताबोधवदनम् / म प्राह / शीघ्रं प्रवेशयत् तं भवती। ततो यदाज्ञापयति देव इत्यभिधाय प्रवेशितः प्रतिहार्या तनियोगः / तेनापि मविनयमुपसृत्य प्रणतो महत्तमो बलाधिकृतश्चाभिनन्दितस्ताभ्यां दापितमासनम् / उपविष्टोऽसौ कृतोचिता प्रतिपत्तिः / ततो विमुच्यामनं बध्वा करमुकुलं कृत्वा ललाटतटे तौबमोहोदयेनोक्तम् / अपि कुशलं देवपादानां महादेव्याः शेषपरिजनस्य च / तत्रियोगेनोक्तम् / सुष्टु कुशलम् / तौबमोहोदयेनोक्तम् / अनुग्रहोयमस्माकं यदव भवतः प्रेषणेनानुस्मृता वयं देवपादरित्यतः कथय यदागमनप्रयोजनमिति / तनियोगेनोक्तम् / कोऽन्यो भवन्तं विहाय देवपादानामनुग्रहाहः / श्रागमनप्रयोजनं पुनरिदम् / अस्ति तावद्विदितैव भवतां विशेषेण माननीया प्रष्टव्या मर्वप्रयोजनेषु अलकनीयवाक्या अचिन्यमाहात्या च भगवती लोकस्थिति म देवपादानां महत्तमभगिनौ। तस्याश्च तुष्टैर्देवपादैः सकलकालमेषोऽधिकारो वितीर्णः / यथास्ति तावदेषोऽस्माकं सर्वदा परिपन्थौ कथञ्चिदुन्मूलयितुमशक्यः सदागमः परमशत्रुः / ततोऽयमस्मद्दलमभिभूय क्वचिदान्तरान्तरा लब्धप्रसरतयास्मदीयभुक्तर्निस्मारयति कांश्चिमोकान् / स्थापयति चास्माकमगम्यायां नितो नगर्याम् / एवं च स्थिते विरलोभविव्यत्येष कालेन लोकः। ततः प्रकटौकरिष्यत्यस्माकमयशस्तन्न सुन्दरमेतत् / अतो भगवति लोकस्थिते त्वयेदं विधेयम् / अस्ति 23 For Private And Personal Use Only