________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दियीयः प्रस्तावः / 173 अहो मे धन्यता येन नरोऽयमवलोकितः // धन्येयं नगरी यस्यां वमत्येष मदागमः / संजातः पूतपापोऽहं दर्शनादस्य धीमतः // नूनमेष भवद्भूतभाविभावविभावनम् / भावतो भगवानुचैः करोत्येषा मदागमः // तदेष मदुपाध्यायो यदि संपद्यते मम / ततोऽहमस्य नेदिष्टो ग्टहामि मकलाः कलाः // ततः प्रज्ञाविशालायास्तेनाकूतं निवेदितम् / जनौजनकयोर्गत्वा तयापि कथितं वचः // प्रादुर्भूतस्तयोस्तोषः प्रविधाय महोत्सवम् / ततः समर्पितस्ताभ्यां मोऽन्यदा शुभवासरे // कथम् / कृतकौतुकसत्कारः परिपूज्य सदागमम् / स भव्यपुरुषस्तस्य शिस्यत्वेन निवेदितः // सिताम्बरधरो धीरः सितभूषणभूषितः / सितपुष्यभरापूर्ण: मितचन्दनचर्चितः // ततो महाप्रमोदेन विनयेन विनेयताम् / प्रपन्नस्तस्य पुण्यात्मा कलाग्रहणकाम्यया // ततो दिने दिने याति म पार्श्व तस्य धीमतः / मदागमस्य जिज्ञासुः माद्धं प्रज्ञाविशालया / अन्यदा हट्टमार्गेऽसौ लीलयास्ते सदागमः / स भव्यपुरुषोऽभ्यर्ण युक्तः प्रज्ञाविशालया // For Private And Personal Use Only