________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 272 उपमितिभवप्रपञ्चा कथा। श्रावळ जननौचित्तं धात्री भव कथञ्चन / त्वयि मंजातविम्भो येनायं राजदारकः / सुखं विवर्द्धमानोऽपि प्रयाति मम वश्यताम् / ततो निक्षिप्य निःशेषमात्मीयं ज्ञानकौशलम् / सुपात्रेत्र भविष्यामि कृतकृत्योऽहमञ्जमा // ततो यदादिशत्यार्य इत्युका नतमस्तका // प्रज्ञाविशाला तदाक्यमनुतस्थौ कृतादरा // अथामौ भव्यपुरुषस्तां धात्रौं प्राप्य सुन्दराम / लालमानः सुखेनास्ते देववद्दिवि लिलया // क्रमात्मवर्द्धमानोऽसौ कल्पपादपमंनिभः / संजातः सर्वलोकानां लोचनानन्ददायकः // ये ते सदागमेनोचै विनो वर्णिता गुणाः / आविर्भूताः समस्तास्ते कौमारे तस्य तिष्ठतः // ततः परिचयं कत्तुं तया प्रज्ञाविशालया / नौतः मदागमाभ्यर्ण मोऽन्यदा राजदारकः // म च तं वीक्ष्य पुण्यात्मा महाभागं सदागमम् / भाविभद्रतया धन्यः परं हर्षमुपागतः // ततः प्रणम्य मङ्गल्या निषलोऽसौ तदन्तिके / आकर्णितं मनोहारि तदाक्यमम्मृतोपमम् // श्रावर्जितो गुणस्तस्य शशाङ्ककरनिर्मलैः / स भव्यपुरुषश्चित्ते ततश्चेदमचिन्तयत् // अस्याहो वाक्यमाधुर्यमहो रूपमहो गुणाः For Private And Personal Use Only