________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः / 11 दिने दिने ममागत्य कर्त्तव्या पर्युपासना // गणाः स्वरूपमाचारं चित्ताराधनमुच्चकैः / त्वयास्य मर्व चार्वणि ज्ञातं कालेन भूयमा / अतो ममापि तत्म निवेद्यं वल्गुभाषिणि / येनाहमेनमाराध्य भवामि तव सन्निभा // ततः प्रज्ञाविशालाह चारुचारूदितं प्रिये / यद्येवं कुरुषे हन्त मफलो मे परिश्रमः // अहो विशेषविज्ञानमहो वचनकौशलम् / अहो कृतज्ञता गुवौं तवेयं चारुलोचने // सङ्केताभावतो भने न जानौषे मदागमम् / तथापि परमार्थेन योग्यता तव विद्यते / एवं च कुर्वतो नित्यं मया मा विचारणम् / अज्ञातपरमार्थापि ज्ञाततत्त्वा भविष्यसि // ततः संजाततोषे ते नमस्कृत्य मदागमम् / प्रियसख्यौ गते तावत्स्वस्थानं तच वासरे // एवं दिने दिने मख्योः कुर्वत्त्योः सेवनां तयोः / सदागमस्य गच्छन्ति दिनानि किल लीलया // अथान्यदा विशालाक्षी प्रोका मा तेन धीमता / प्रज्ञाविशाला मानन्दं पुरुषेण महात्मना // एष सर्वगुणाधारो भवत्या स्नेहनिर्भरः / बालकालात्समारभ्य कर्त्तयो राजदारकः // गत्वा राजकुलं भद्रे विधाय दृढसङ्गतम् / For Private And Personal Use Only