________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 170 उपमितिभवप्रपञ्चा कथा / विष्टे ते तनिकटे / तदाकतिदर्शनादेव संबहुमानं मुहुर्मुहुर्विलोकनादग्टहीतसङ्केतायाः प्रनष्ट व मन्देहो वर्द्धितचित्तानन्दः ममुत्पन्नो विश्रम्भो मतात्मनः कृतार्थता तद्दर्शनेनेति / ततः प्रज्ञाविशाला प्रत्यभिहितमनया / अपि च। धन्यामि त्वं महाभागे सुन्दरं तव जीवितम् / यस्याः परिचयोऽनेन पुरुषेण महात्मना // अहं तु मन्दभाग्यासं वञ्चितासं पुरा यया / न दृष्टोऽयं महाभागः पुरुषः पूतकल्मषः // नाधन्याः प्राप्नुवन्तौमं भगवन्तं सदागमम् / निर्लक्षणनरो नैव चिन्तामणिमवाप्नुते // संजाता पूतपापाहमधुना मृगलोचने / तव प्रसादादृष्वेमं महाभागं मदागमम् // त्वया कमलपत्राधि येऽस्य संवर्णिता गुणाः / ते तथैव मया सर्वे दर्शनादेव निश्चिताः // नाहं विशेषतोऽद्यापि वेद्मास्य गुणगौरवम् / नात्यन्यः पुरुषोऽनेन तुल्य एतत्तु लक्षये // श्रामोन्मे मन्दभाग्यायाः पुरेमं प्रति संशयः / गुपोषु दर्शनादेव मांप्रतं प्रलयं गतः // निगूढचरितासि त्वं सत्यं सद्भाववर्जिता / यया न दर्शितः पूर्वं ममेषः पुरुषोत्तमः // तत्मांप्रतं मयाप्यस्य भवत्या मह सुन्दरि / For Private And Personal Use Only