________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः। 68 विशेषतः पुनः कोऽस्य गुणानां वर्णनक्षमः // ततः प्रज्ञाविशालाया वाक्यमाकर्ण्य विस्मिता / हृदये चिन्तयत्येवं मा मन्देहमुपागता // यदिदं प्रियसख्या मे विहितं गुणवर्णनम् / यदि मत्यमिदं तेन नास्ति तुल्यस्ततोऽपरः // अतः पश्यामि तं तावत्करोमि खं विनिश्चयम् / परप्रत्ययतो ज्ञाते न सन्देहो निवर्तते // ततश्चैवं विचिन्त्य तया अग्टहीतसङ्केतयाभिहिता प्रज्ञाविशाला / प्रियमखि सुनिश्चितं सत्यवादिनीमपि भवतीमधुनाहमनेन सदागमस्यासम्भावनौयगुणवर्णनेनानर्गलभाषिणैमिव परिकल्पयामि / भवन्ति च मे मनसि विकन्याः किल परिचितमिति कृत्वा एषा वर्णयति / अन्यथा कथं कर्मपरिणामो महानरेन्द्रः कुतथिद्दिभियात् / कथं वैकत्र पुरुषे एतावान् गुणसंघातः संभाव्येत / न च प्रियसखौ कदाचन मां विप्रलम्भयति। ततः सन्देहापत्र दोलायते मे मन अतस्तमात्मपरिचितं परमपुरुषं विशेपतो दर्शथितुमर्हति मे भवती / प्रज्ञाविशालाह / सुन्दरमेतदभिप्रेतमेव मे हृदयस्या भिगमनोयो द्रष्टव्य एवामौ भगवान् / ततो गते द्वे अपि तन्मलम् / दृष्टय ताभ्यां तस्य महाविजयरूपावपणपतिभिर्विराजितस्थानेकमहापुरुषाकोर्णस्य महाविदेहरूपस्य विपणिमार्गस्य मध्ये वर्तमान. प्रधानजनपरिकरितो भूतभवद्भविष्यद्भावस्वभावाविर्भावनं कुर्वाणो भगवान् सदागमः / ततः प्रत्यासन्नौभूय प्रणम्य तच्चरणयगलमुप 22 For Private And Personal Use Only