________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। एष एव च मार्तण्डो मिथ्यात्वध्वान्तसूदनः // एष एव चतुर्भदजीवितोच्छेदकारणम् / यतो जीवं ततोऽतोते नयत्येष शिवालये // शुभेतरेण या नाम्ना कृता लोकविडम्बना / छिन्ते तामेष लोकानामनङ्ग स्थानदानतः // सर्वोत्तमत्वं भक्तानां विधायाक्षयमव्ययम् / एष एव छिनत्युच्चैनौं चैर्गोत्रविडम्बनाम् // एष एव च दानादिशक्तिसन्दोहकारणम् / एष एव महावौर्ययोगहेतुरुदाहृतः // अन्यच्च ये महापापा निर्भाग्याः पुरुषाधमाः / न ते मदागमस्यास्य नामापि बहु मन्यते / / ततस्तेन नरेन्द्रेण ते पूर्वोक्तविधानतः / संसारनाटकेनोः कदान्ते निरन्तरम् // य एव भाविकल्याणा: पुण्यभाजो नरोत्तमाः / ते सदागमनिर्देशं कुर्वन्ति महदादरात् // ततोऽपकर्ण्य राजानं ते विडम्बनकारिणम् / संसारनाटकान्मुक्ता मोदन्ते निर्वृतौ गताः // राजभुक्तौ वसन्तोऽपि राजानं बातुल्यकम् / सदागमप्रसादेन मन्यन्ते ते निराकुलाः // किंवात्र बहुनोनेन नास्ति तवस्तु किंचन / मदागमेऽस्मिन् भक्तानां सुन्दरं यन जायते // तदेतदस्य माहात्म्यं किंचिलेगेन वर्णितम् / For Private And Personal Use Only