SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः। एष एव च योगानां दुष्टानां वरणोद्यतः // शद्वादिचर टाक्रान्ते हृतधर्मधने जने / समर्था भगवानेष नान्यस्तस्य विमोचने // एष एव महाघोरनरकोद्धरणक्षमः / पश्रुत्वदुःखसंघातात्त्रायकोऽप्येष देहिनाम् // एष एवं कुमानुय्यदुःखविच्छेदकारणम् / एष एव कुदेवत्वमनःसन्तापनाशकः // अज्ञानतरुविच्छेदे एष एव कुठारकः / एष एव महानिद्राद्रावणः प्रतिबोधकः // एष स्वाभाविकानन्दकारणत्वेन गोयते / मातामातोदयोत्पाद्य मिथ्याबुद्धिविधनकः // एष एव गरुक्रोधवझिविध्यापने जलम् / एष एव महामानपर्वतोद्दलने पविः // एष मायामहाव्याघ्रीघातने सरभायते / एष एव महालोभनौरदैः शोषणानिलः // एष हास्यविकारस्य गाढं प्रशमनक्षमः / एष मोहोदयोत्पाद्यां रतिं निर्नाशयत्यलम् // एष एवार्त्तिग्रस्ते जनेऽस्मिन्नम्तायते / एष एव भयोद्धान्तमत्त्वसंरक्षणक्षमः // एष शोकभराक्रान्तं संधौरयति देहिनम् / एष एव जुगुप्मादिविकारं शमयत्यनम् // एष कामपिशाचस्य दृढमुच्चाटने पटुः / For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy