________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / नेव कर्मपरिणामो महानरेन्द्रो यद्यपि संसारनाटके कियन्तमपि कालं नाटयति नथापि मदागमस्थाभिप्रेता एत इति मत्वा नाधमपात्रभावं नारकतिर्थमानुषकदमररूपं तेषां विधत्ते / किंतर्हि केषांचिदनुत्तरसुररूपं दर्शयति / केषाञ्चिद् ग्रैवेयकामराकारं प्रकटयति / केषाञ्चिदुपरितनकल्पोपपन्नदेवरूपतां जनयति / केषाञ्चिदधस्तनकल्पोत्पत्रमहर्द्धिलेखकरणिं कारयति / केषाञ्चिदभुवि भूरूपतां लक्षयति। केषाञ्चिच्चक्रवर्तिमहामण्डलिकादिप्रधानपुरुषभावं भावयति / सर्वथा प्रधानपात्ररूपतां विहाय न कदाचिद्रूपान्तरेण ताबर्तयति / तत्पर्याप्तमेतावतास्य भगवतः सदागमस्य माहात्म्येन / यदेवंविधसामर्थ्ययुकोऽप्येष कर्मपरिणामो महानृपतिरेतद्भयाक्रान्तहृदयः खल्वेवं वर्त्तते / अन्यच्च कथ्यते तुभ्यं कौतुकं यदि विद्यते / रूपं सदागमस्यास्य तद् बुध्यस्ख मृगेक्षणे // एष एव जगन्नाथो वत्सलः परमार्थतः / एष एव जगत्त्राणमेष एव सुबान्धवः // एष एव विपदः पततामवलम्बनम् / एष एव भवाटव्यामटतां मार्गदेशकः // एष एव महावैद्यः सर्वव्याधिनिबर्हणः / एष एव गदोच्छेदकारणं परमौषधम् / / एष एव जगद्दीपः सर्ववस्तुप्रकाशकः / प्रमादराक्षमात्तर्णमेष एव विमोचकः // एषोऽविरतिजम्बालकल्मषचालनक्षमः / For Private And Personal Use Only