________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 उपमितिभवप्रयच्चा कथा / कयोस्ताभ्यां ममर्पितो भविष्यति ममैष शिष्यः / ततोऽहमस्य संक्रामितमिजज्ञानः कृतकृत्यो भविष्यामौति बुध्यायं सदागमोऽस्य समतेर्भव्यपुरुषस्य जन्मना मफलमात्मानमवगच्छतौति। अत एव मंजातपरितोषतया जनसमक्षं राजदारकगुणानेष वर्णयति / अग्ट तसङ्केतयोक्तम्। प्रियमखि किंपुनरस्य भगवतः मदागमस्य माहात्यं यदेते पापिष्ठमत्वा नावबुध्यन्ते / अनवबुध्यमानाश्च नास्य वचने वर्तन्ते इति। प्रज्ञाविशालयोनं वयस्ये समाकर्णय। य एव सर्वत्रानिवारितशक्तिप्रसरः कर्मपरिणामी महाराजो यथेष्टचेष्टया मंसारनाटकमावर्त्तयमानः सततमौश्वरान् दरिद्रयति सुभगान् दुर्भगयति सुरूपान् कुरूपयति पण्डितान्मर्खयति शूरान् क्लौबयति मानिनो दौनयति तिरश्चो नारकायति नारकान्मनुय्ययति मनुव्यान्देवयति देवान् पशुभावमानयति नरेन्द्रमपि कौटयति चक्रवर्त्तिनमपि ट्रमकयति दरिद्रादौनेश्वरादिभावान् प्रापयति किम्बहुना यथेष्टं भावपरिवर्तनं विदधानो न क्वचित्पतिहन्यते / अयमप्यस्य भगवतः सदागमस्य संबन्धिनोऽभिधानादपि बिभेति गन्धादपि पलायते / तथाहि / तावदेष कर्मपरिणाम एतान्समस्तलोकान्संसारनाटकविडम्बनया विडम्बयति / यावदयं सदागमो भगवान् हुंकारयति। यदि पुनरेष इंकारयेत्ततो भयातिरेकस्रस्तसमस्तगात्रो महासमरसंघट्टे कातरनर इव प्राणान् स्वयमेव ममस्तानपि मुश्चेत् / मोचिताश्चानेनामुमादनन्ताः प्राणिनः / अग्टहीतसङ्केतयोक्तम् / ते किमिति न दृश्यन्ते / प्रज्ञाविशालाह / अस्ति कर्मपरिणाममहाराजभुक्तरतिक्रान्ता नितिर्नाम महानगरौ / For Private And Personal Use Only