________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः / 163 भगवतो माहात्म्यम् / ततस्तेभ्यो हितमुपदिशन्तमप्येनं सदागमं केचिद् दूषयन्ति केचिदपकर्णयन्ति केचिदुपहसन्ति केचिदुपदिष्टाकरणशक्तिमात्मानो दौपयन्ति केचित्तद्वचनादूरत एव वस्यन्ति केचित्तं प्रतारकधिया शंकन्ते केचित्तचनमादित एव नावबुध्यन्ते केचित्तद्वचनं श्रुतमपि न रोचयन्ति केचित्तट्रोचितमपि नानुतिष्ठन्ति केचिदनुष्ठानमधिकृतमपि पुनः शिथिलयन्ति ततश्चैवं स्थितेनास्य सम्यक संपद्यते परोपकारकरणलक्षणा समौहितमिद्धिः / ततोऽयमनया सततं प्राणिनामपाबतया गाढमुद्धेजितः भवत्येव हि गुरूणामपि निष्फलतया कुपात्रगोचरो महाप्रयासचित्तखेदहेतुरयं तु राजदारको भव्यपुरुष इति पात्रभूतोऽस्य प्रतिभासते / भव्यपुरुषः मन्नपि यदि दुम्मतिः स्यात् नतो न पात्रतां लभेत / अयं तु राजदारको यतः सुमतिरतः पात्रभूत एवेति कृत्वामुख्य सदागमस्यात्यन्तवल्लभः / / अन्यच्चायं मदागमो मन्यते यतोऽस्य दारकस्यैवंरूपतया जनकत्वादेव सुन्दरः कर्मपरिणामः / जननीत्वादेव चानुकूला कालपरिणतिः / ततोऽयं विमुक्तबालभावः सुन्दरतथा निजखभावस्य प्रत्यासन्नतया कल्याणपारम्पर्य्यस्य प्रमोदहेतुतयैवंविधपुरुषाणां मद्दर्शनमस्यामुपलभ्य नियमेनास्थ भविष्यति मनस्येवंविधो वितर्कः / यथा सुन्दरेयं मनुजगतिनगरी यस्यामेष सदागमः परमपुरुषः प्रतिवमति / ममाप्यस्ति प्रायेण योग्यता काचित्तथाविधा यया तेन सह मौलकः संपन्नः / ततोऽमुं परमपुरुषं विनयेनाराध्यास्य सम्बन्धि ज्ञानमभ्यस्यामि / ततोऽनुकूलत्वाज्जननौजन For Private And Personal Use Only