________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 उपमितिभवप्रपञ्चा कथा / जगतो नगर्यामेष भव्यपुरुषः सुमतिर्जनितः / चालितान्येतज्जननेनाभ्यामात्मनः समस्तदुश्चरितान्यपुत्रत्वायशश्चेति / तदिदं समस्तमवहितचित्तया मयाकर्णितं तत एव संजातो मे मनसि वितर्कः कथं पुनरनपत्यतया प्रसिद्धयोर्दैवौनृपयोः पुत्रोत्पत्तिः। को वैष पुरुषः सर्वज्ञ व भविष्यत्कालभाविनौं राजदारकवक्रव्यतां समस्तां कथयतीति। ततश्चिन्तितं मया प्रियसखौमेतद्द्वयमपि प्रश्नयिव्यामि। कुशला हि मा सर्ववृत्तान्तानां तत्रापनौतो भवत्याः प्रथमः सन्देहः सांप्रतं मे द्वितीयमपनयतु भवती। प्रज्ञाविशालयोकम् / वयस्वे कार्यद्वारेणाहमगच्छामि म एव मम परिचितः परमपुरुषः सदागमनामा तदाचक्षाणोऽवलोकितो भवत्या। यतः म एवातीतानागतवर्तमानकालभाविनो भावान् करतलगतामलकमिव प्रतिपादयितुं पटिष्टो नापरः। यतो विद्यन्तेऽस्यां मनुजगतौ नग-मन्येऽपि तादृशा अभिनिबोधावधिमन:पर्यायकेवलनामानश्चत्वारः परमपुरुषाः केवलं न तेषां परप्रतिपादनशकिरस्ति / मूका हि ते चत्वारोऽपि स्वरूपेण / तेषामपि स्वरूपं सत्पुरुषचेष्टितमवलम्बमानः परगुणप्रकाशनव्यसनितया लोकसमक्षमेष एव सदागमो भगवानुत्कीर्तयति। अग्टहीतमङ्केतयो कम् / वयस्ये किं पुनः कारणमेष राजदारकोऽस्य सदागमस्यात्यन्तवल्लभः। किं चैतज्जन्मनात्मानमयं सफलमवगच्छतौति श्रोतुमिच्छामि / प्रज्ञाविशालयोक्तम् / एष हि महापुरुषतया सततं परोपकारकरणपरायण: समस्तजन्तुभ्यो हितमाचरत्येव / केवलमेते पापिष्ठाः प्राणिनो नास्य वचने वर्तन्ते ते हि न लक्षयन्ति वराका यदस्य For Private And Personal Use Only