________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः। साधु सुन्दरमाख्यातं भवत्या नाशितो मे सन्देहः / यथा च त्वत्समीपमुपगच्छन्या मया हट्टमार्गे समाकर्णितो लोकप्रवादस्तथा देवौनृपयोः क्षालितमेवायश:कलङ्कमवगच्छामि / प्रज्ञाविशालयोक्रम् / किमाकर्णितं प्रियसख्या / तयोक्तम् / दृष्टो मया तत्र बहुलोकमध्ये सुन्दराकारः पुरुषः स च सविनयं पृष्टः पौरमहत्तमैः। भगवन् य एष राजदारको जातः स कीदृग्गुणो भविय्यतीति। तेनोक्तम् / भद्राः श्टणुता समन्तगुणभारभाजनमेष वर्द्धमानः कालक्रमेण भविष्यतीत्यतो न शक्यन्तेऽस्य सर्व गुणाः कथयितुम् / कथिता अपि न पार्यन्तेऽवधारयितुम् / तथापि लेशोद्देशतः कथयामि / भविष्यत्यष निदर्शनं रूपस्य निलयो यौवनस्य मन्दिरं लावण्यस्य दृष्टान्तः प्रश्रयस्य निकेतनमौदार्यस्थ निधिविनयस्य सदनं गाम्भीर्यस्य श्रालयो विज्ञानस्य आकरो दाक्षिण्यस्य उत्पत्तिभूमिर्दाक्षस्य इयत्तापरिच्छेदः स्थैर्यस्य प्रत्यादेशगोचरो लन्नायाः उदाहरणं विषयप्रागल्भ्यस्य सङ्गत तिस्मृतिश्रद्धाविविदिषादिसुन्दरोणामिति / अन्यच्चानेकभवाभ्यस्तकुशलकर्मतया बालकालेऽपि प्रवर्त्तमानोऽयं न भविष्यति केलिप्रियः दर्शयिष्यति जने वत्सलतां ममाचरिष्यति गुरुविनयं प्रकटयिष्यति धर्मानुरागं न करिथति लोलतां विषयेषु विजेष्यते कामक्रोधादिकमान्तरमरिषड्वर्ग नन्दयिष्यति भवतां चित्तानौति। ततस्तदाकर्ण्य सभयं महर्षं च दिशो निरौक्षमाणैस्तैरभिहितमहो विषमशीलतया समस्तजन विडम्बनाहेतुभूतयापि कालपरिणत्या कर्मपरिणामेन चेदमेकं सुन्दरमाचरितम् / यदाभ्यामस्यां सकलदेशविख्यातायां मनु 21 For Private And Personal Use Only