________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 958 उपमितिभवप्रपञ्चा कथा / काले दारकस्य नरनाथेन खचित्तेनैवं पर्यालोच्य यतोऽस्य गर्भावतारकाले जननौ सर्वाङ्गसन्दरं नरं वदनेन प्रविशन्तं दृष्टवतो ततोऽस्य भवतु भव्यपुरुष इति नाम / ततस्तदाकी देवी राजानमुवाच देवाहमपि पुत्रकस्य किंचिन्नाम कर्त्तमभिलषामि तदनुजानातु देव इति / नृपतिराह। देवि कः कल्याणेषु विरोधोऽभिधीयतां ममौहितमिति / ततस्तयोकं यतोऽत्र गर्भस्थे मम कुशलकर्मकरणपक्षपातिनौ मतिरभूत्ततोऽस्य भवतु सुमतिरित्यभिधानम् / ततो ऽहो चौरे खण्डक्षेपकल्पमेतद्देवौकौशलेन संपन्नं यद्भव्यपुरुषस्य मतः सुमतिरित्यभिधानान्तरमिति ब्रुवाण: परितोषमुपागतो राजा विशिष्टतरं नामकरणमहोत्सवं कारयामास / दूतश्चास्ति तस्यामेव मनुजगतो नगर्यामग्टहीतसङ्केता नाम ब्राह्मणौ / मा जनवादेन नरपतिपुत्रजन्मनामकरणवृत्तान्तमवगम्य मखौं प्रत्याह / प्रियमखि प्रज्ञाविशाले पश्य यच्छ्रयते महाश्चर्य लोके यथा कालपरिणतिर्महादेवी भव्यपुरुषनामानं दारकं प्रसूतेति / ततः प्रज्ञा विशालयो प्रियमखि किमत्राश्चर्यम् / अग्टहीतसङ्केताह / यतो मयावधारितमासीत् किलेष कर्मपरिणाममहाराजो निवौंजः स्वरूपेण / इयमपि कालपरिणतिर्महादेवौ वन्ध्येति / इदानौं पुनरनथोरपि पुत्रोत्पत्तिः श्रूयत इति महदार्यम् / प्रज्ञाविशालाह। अयि मुग्धे मत्यमग्टहौतमकेतासि यतो न विज्ञातस्त्वया परमार्थः / अयं हि राजा अविवेकादिभिमन्त्रिभिरतिबद्धबीज इति माभूद्दर्जनचक्षुर्दोष इति कृत्वा निर्बोज इति प्रकाशितो लोके / इयमपि महादेव्यनन्तापत्यजनयित्री तथापि दुर्जनचक्षुर्दोषभयादेव तैरेव For Private And Personal Use Only