________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः / सतथाविरभूगर्भस्तं वहन्या प्रमोदतः / अथ मासे हतीयेऽस्याः संजातोऽयं मनोरथः // अभयं सर्वसत्त्वेभ्यः सर्वार्थिभ्यो धनं तथा / ज्ञानं च ज्ञानशून्येभ्यश्चेद्यच्छामि यथेच्छया / तथाविधविकल्पंतं निवेद्य वरभूभुजे / संपूर्णच्छा ततो जाता कृत्वेष्टं तदनुज्ञया // अथ संपूर्णकालेन मुहूर्त सुन्दरेऽनघा / मा दारकं शुभं सूता सर्वलक्षणसंयुतम् // ततः ससम्भ्रममुपगम्य निवेदितं दारकस्य जन्म नरपतये प्रियनिवेदिकाभिधानया दामदारिकया दत्तं च तेनाल्हादातिरेकसंपाद्यमनाख्येयमवस्थान्तरमनुभवता तस्यैव मनोरथाधिकं पारितोषिकं दानम्। दत्तवानन्दपुलको दसुन्दरं देहं दधानेन महत्तमानामादेशः। यदुत भो भो महत्तमाः देवीपुत्रजन्माभ्युदयमुद्दिश्य घोषणापूर्वकं ददध्वमनपेचितमारामारविचाराणि महादानानि / पूजयत गुरुजनम् / समानयत परिजनम् / पूरयत प्रणयिजनम् / मोचयत बन्धनागारम् / वादयतानन्दमईलमन्दोहम् / नृत्यत यथेष्टमुद्दामतया। पिबत पानम् / सेवध्वं दयिताजनम् / मा रशीत शुल्कम् / मुञ्चत दण्डम् / श्राश्वासयत भौतलोकम् / वसन्तु सुखस्थचित्ताः समस्ता जनाः / नास्तिकस्यचिदपराधगन्धोऽपौति / ततो यदाज्ञापयति देव इति विनयनतोत्तमाङ्गः प्रतिपद्य संपादितं तद्राजशासनं महत्तमैः / निर्वर्तितोऽशेषजनचमत्कारकारौ जन्मदिनमहोत्सवः / प्रतिष्ठापितं समुचिते For Private And Personal Use Only