________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / न विषादोऽत्र कर्त्तव्यो देव्या यस्मात्प्रयोजने / प्रावयोरेकचित्तत्वं यत्र तज्जायते ध्रुवम् // कालपरिणतिरवार। चारु चारूदितं नायैर्विहितो मदनुग्रहः / भविष्यतीत्थमेवेदं बद्धो ग्रन्थिरयं मया // अानन्दजलपूर्णची भर्तुर्वाक्येन तेन मा / ततः संजातवियम्भा सतोषा समपद्यत // अन्यदा पश्चिमे यामे रजन्याः शयनं गता। खप्ने कमलपत्राची दृष्ट्वैवं सा व्यबुध्यत // वदनेन प्रविष्टो मे जठरे निर्गतस्ततः / नौतः केनापि मित्रेण नरः सर्वाङ्गसुन्दरः / / ततो हर्षविषादाद्यं वहन्ती रसमुत्थिता / तं स्वप्नं नरनाथाय माचचक्षे विचक्षणा || नरपतिरुवाच / खप्नस्यास्य फलं देवि मम चेतमि भासते / भविष्यत्युत्तमः पुत्रस्तवानन्दविधायकः // केवलं न चिरं गेहे तावके स भविष्यति / धर्मसूरिवचोबुद्धः स्वार्थसिद्धिं करिष्यति / कासपरिणतिरुवाच / जायतां पुत्रकस्तावत्पर्याप्तं तावतैव मे / करोतु रोचते तस्मै यत्तदेव ततः परम् // For Private And Personal Use Only