SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 उपमितिभवप्रपञ्चा कथा / विधक्रीडाविब्बोकैः। श्रभ्यस्यन्तु मकलकलाकलापकौशस्वम् / पुनरतिलंघितकुमारभावान्यध्यासयन्तु तरुणतां दर्शयन्तु मन्मथगुरूपदेशानुसारेण सकलविवेकिलोकहास्यकारिणोऽनपेक्षितनिजकुनकलंकाद्यपायान् कटाक्षविक्षेपादिमाराम् नानाकारविलासलासविशेषानिति / प्रवर्तन्तां पारदार्या दिवनार्यकार्येषु / पुनरपगततारुण्यानि स्वीकुर्वन्तु मध्यमवयस्ताम् / प्रकटयन्तु सत्त्वबुद्धिपौरुषपराक्रमप्रकर्षम् / पुनरतिवाहितमध्यमवयोभावानि संश्रयन्तु जराजोर्णताम् / दर्शयन्तु वनोपलिनाङ्गभङ्गकरणविकलत्वमलजंबाला विलशरोरताम्। समाचरन्तु विपरीतखभावताम् / पुनर्व्यवखितसकलजीवितभावानि देहत्यागेन नाटयन्तु मृतरूपताम् / ततः पुनः प्रविशन्तु योनिजवनिकाभ्यन्तरे। अनुभवन्तु तत्र गर्भकलमलान्तर्गतानि विविधदुःखम् / पुनश्च निर्गच्छन्तु रूपान्तरमुपादाय कुर्वन्त्वैवमनन्तवाराः प्रवेशनिर्गमनम् / तदेवं मा कातपरिणतिर्महादेवौ तेषां संसारनाटकान्तर्गतानां समस्तपात्राणामवस्थितरूपेण क्षणद्वयमप्यासितुं न ददाति किं तईि क्षणे क्षणे वराकाणि तान्यपरापररूपेण परावर्त्तयति / किं च तेषां नृत्यतां यान्युपकरणानि पुगलस्कंधनामानि पूर्वमाख्यातानि तान्यप्यतिचपलखभावतया मात्मनः प्रभुत्वं दर्शयन्तौ क्षणे क्षणे अपरापररूपं भाजयति। तानि च पात्राणि किं क्रियते तत्र राजाप्यस्या वणवत्तौ न चान्योऽस्तिकश्चिदात्मनो मोचनोपाय इति विचिन्य निर्गतिकानि सन्ति / यथा यथा मा कालपरिणतिराज्ञापयति तथा तथा नानाकारमात्मानं विडम्बयतीति / किं च। कर्मपरिणामादपि सकाशात्मा For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy