________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 उपमितिभवप्रपञ्चा कथा / वसन्ति त्रौण्येव पाटकमण्डलानि। यस्यां च लोकसुखहेतवः समुचितस्थानस्थायिनः कल्पद्रुमरूपा भूयांसः स्थानान्तरोयनृपतय इति। अपि च / तस्याः कः कोटिजिहोऽपि गुणसंभारगौरवम् / शको वर्णयितुं लोके नगर्याः किमु मादृशः / / यस्यां तौर्थकृतोऽनन्ताश्चक्रिकेशवशौरिणः / संजाताः संजनिष्यन्ते जायन्तेऽद्यापि केचन // या चेह सर्वशास्त्रेषु लोके लोकोत्तरेऽपि च / अनन्तगुणसंपूर्ण दुर्लभत्वेन गौयते // उच्चावचेषु स्थानेषु हिण्डित्वा श्रान्तजन्तवः / प्राप्ताः खेदविनोदेन लभन्ते यत्र निर्दतिम् // विनीताः शुचयो दचा यस्यां धन्यतमा नराः / न धर्ममपहायान्यनूनं चेतसि कुर्वते // यस्यां नार्यः मदानार्यकार्यवर्जनतत्पराः / पुण्यभाजः सदा धर्म जैनेन्द्रं पर्युपासते // किंवात्र बहुनोतन वस्तु नास्ति जगत्त्रये। तस्यां निवसतां सम्यक् पुंसां यन्नोपपद्यते // मा हि रत्नाकरैः पूर्णा मा विद्याभूमिरुत्तमा / मा मनोनयनानन्दा मा दुःखौघविनाशिका / / माखिलाश्चर्यभूयिष्टा सा विशेषसमन्विता / मा मुनीन्द्रसमाकीर्णा सा सुश्रावकभूषिता // मा जिनेन्द्राभिषेकादितोषिताखिलभव्यका / For Private And Personal Use Only