________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः प्रस्तावः / मापवर्गाय भव्यानां मा संसाराय पापिनाम् // जौवोऽजौवस्तथा पुण्यपापाद्याः सन्ति नेति वा / अयं विचारः प्रायेण तस्यामेव विशेषतः // यस्तस्यामपि संप्राप्तो नगयों पुरुषाधमः / न युज्यते गुणेोकः सोऽधन्य इति गण्यते // नां विमुच्य न लोकेऽपि स्थानमस्तौह मानवाः / संपूर्ण यत्र जायेत पुरुषार्थचतुष्टयम् // 13 // तस्यां च मनुजगतौ नगर्यामतुलबलपराक्रमः खवीर्याक्रान्तभुवनत्रयः शक्रादिभिरप्रतिहतशक्तिप्रसरः कर्मपरिणामो नाम महानरेन्द्रः। यो नीतिशास्त्रमुसंध्य प्रतापैकरम: मदा / हणतुल्यं जगत्सर्वं विलोकयति हेलया // निर्दयो निरनुक्रोश: सर्वावस्थासु देहिनाम् / म चण्डशासनो दण्डं पातयत्यनपेक्षया // म च केलिप्रियो दुष्टो लोभादिभटवेष्टितः / नाटकेषु परां काष्ठां प्राप्तोऽत्यन्तं विचक्षण: // नास्ति मलो जगत्यन्यो ममेति मदविहलः / स राजोपट्रवं कुर्वन्नधनायति कस्यचित् // ततो हास्यपरो लोकान् नानाकारैविडम्बनैः / सर्वान्विडम्बयबुच्चैर्नाटयत्यात्मनाग्रतः // तेऽपि लोका महान्तोऽपि प्रतापमसहिष्णवः / तस्य यद्यदसौ वक्ति तत्तत्मवें प्रकुर्वते // For Private And Personal Use Only