________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / 145 व्यवच्छेदेन काष्ठपाचीस्थानौयाभिहितज्ञानदर्शनचारित्रभेषजत्रयातथैव विधास्यते / तत्रैवं स्थिते भो भव्याः श्रूयतां भवद्भिरियमभ्यर्थना। यथा तेनापि रोरेण तथा प्रयुक्तं तद्भेषजत्रयमुपादाय ये रोगिणः सम्यगुपभुञ्जते ते नौरोगतामास्कन्दन्ति युज्यते च तत्तेषां ग्रहीतुं तस्य ग्रहणे रोरोपकारसंपत्तेः। तथा मादृशापि भगवदवलोकनयावाप्तमगुरुपादप्रसादेन तदनुभावाविर्भूतमबुद्धितया यदस्यां कथायां विरचयिष्यते ज्ञानादित्रयं तल्लास्यन्ति ये जीवास्तेषां तट्रागादिभावरोगनिबर्हणं संपत्स्थत एव न खलु वर्गुणदोषाबुपेक्ष्यवाच्याः पदार्थाः खार्थमाधने प्रवर्त्तन्ते। तथा हि। यद्यपि स्वयं वुभुक्षाक्षामः पुरुषः स्वामिसंबन्धिनमाहार विशेषं तदादेशेनैव तदुचितपरिजनाय प्रकटयन् भोजनायोत्सङ्गे कलयति तथाप्यमावाहारविशेषस्तं परिजनं तर्पयत्येव न वक्तृदोषेण स्वरूपं विरहयति तथेहापि योजनौयम् / तथा हि। स्वयं ज्ञानाद्यपरिपूर्णनापि मया भगवदागमानुसारेण निवेदितानि ज्ञानादौ नि ये भव्यसत्वा ग्रहौव्यन्ति तेषां रागादिबुभुक्षोपशमेन स्वास्थ्यं करियन्त्येव स्वरूपं हि तत्तेषामिति / किं च / यद्यपि भगवत्सिद्धान्तमध्यमध्यासौनमेकैकं पदमाकर्ण्यमाणं भावतः सकलं रागादिरोगजालं समुन्मूलयितुं पटिष्टमेव स्वाधीनं च तदाकर्णनं भवतां तथा यद्यपि चिरन्तनमहापुरुषोपनिबद्धकथाप्रबन्धश्रवणेनापि मद्भावनया क्रियमाणेन रागादित्रोटनं सुन्दरतरं संभवत्येव तथाप्यमुनोपायेन संसारसागरं तरितकामे मयि परम 18 For Private And Personal Use Only