________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 उयमितिभवप्रपञ्चा कथा / सन्मार्गविशेषमासादयति न पुनस्ततः प्रतिपततीति तदिदमवेत्य स्वयमुपेत्यापि ज्ञानादिस्वरूपप्रकाशने यथाशक्ति प्रवर्त्तितव्यं न पराभ्यर्थनमपेक्षणीयमिति ततोऽयं जौवोऽत्र भगवन्मते वर्तमानो देशकालाद्यपेक्षयापरापरस्थानेषु परिभ्रमन् महता प्रपञ्चन कुरुते भवेभ्यो ज्ञानदर्शनचारित्ररूपमार्गप्रतिपादनं सेयं घोषणा विज्ञेया / ततस्तथा कथयतोऽस्मात् प्रस्तुतजीवाद्ये मन्दतरमतयस्ते तदुपदिष्टानि ज्ञानादौनि कदाचिद् ग्टलीयुः ये पुनर्महामतयस्तेषामेष दोषपुञ्जतां प्राकनौनामस्थानुस्मरतां हास्यप्रायः प्रतिभासते होलोचितश्च तेषामयं जौवः / यत्तु न होलयन्ति स तेषामेव गुणो न पुनरस्येति / ततोऽयं चिन्तयति कथं पुनरयं ज्ञानाद्युपदेशः सर्वानुग्राहको भविष्यतीति / ततः सद्बुद्धिबलादेवेदं लक्षयति। यदुत न साचान्मया दीयमानोऽयममौषां समस्तलोकानामुपादेयतां प्रतिपद्यते। तस्मादेवं करिश्थे। यदुत यान्येतानि ज्ञानदर्शनचारिचाणि भगवन्मतमारभूतानि प्रतिपाद्यानि वर्त्तन्ते तान्येकस्यां ग्रन्थपद्धतौ ज्ञेयश्रद्धेयानुष्टयार्थविरेचने विषयविषयिणोरभेदोपचारधारेण व्यवस्थाप्य ततस्तां ग्रन्थपद्धतिमत्र मौनीन्द्रे प्रवचने भव्यजनसमक्षं मुत्कस्तां मुञ्चामि ततस्तस्यां वर्तमानानि तानि समस्तजनादेयानि भविष्यन्ति / किं च / यद्यकस्यापि जन्तोस्तानि भावतः परिणमेयुः ततस्तत्कषुर्म किं न पर्याप्तमिति। तदिदमवधार्यानेन जौवेनेयमुपमितिभवप्रपञ्चानाम कथा यथार्थाभिधाना प्रकृष्टशदार्थविकलतया सुवर्णपाच्यादि For Private And Personal Use Only