________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 140 उपमितिभवप्रपञ्चा कथा / तथा हि। यः प्रेतभूतः प्रागामीडाढं बौभत्मदर्शनः / न तावदेष संपन्नो मानुषाकारधारकः / / तदत्रापि जौवे तुल्यं वर्तते / तथा हि / भावमारं परिमुझटहादिदन्दस्यास्य कारणभावान भवत्येवाभिव्यक्ता काचिट्रागादिबाधा। अथ कथंचित् प्रागुपचितकर्मोदयवशेन संजायते तथापि मा सूक्ष्मैव भवति न चिरकालमवतिष्ठते ततोऽयं लोकव्यापारादिनिरपेक्षोऽनवरतं वाचनाप्रच्छनापरावर्त्तनानुप्रेक्षाधर्मकथालक्षणपञ्चप्रकारस्वाध्यायविधानद्वारेण ज्ञानमभिवर्द्धयति प्रवचनोन्नतिकरशास्त्राभ्यासादिना सम्यग्दर्शनं स्थिरतां लंभयति विशि तरतपोनियमाद्यनुशीलनया चारित्रमपि सात्म्यौयभावं नर्यात तदिदं भावतो भेषजत्रयमेवनमभिधीयते / ततस्तत्परिणत्या प्रादभवन्येवास्थ धौष्टतिस्मृतिबलाधानादयो गुणविशेषाः केवलमनेकभवोपात्तकर्मप्रचयप्रभवा भूयांसः खलु रागादयो भावरोगाः / ततो नायमद्यापि नौरोग: संपद्यते किं तु रोगता न च विशेषो रहत्तमः संजातः / तथा हि। योऽयं जीवो गाढमनार्यकार्याचरणरतिः खसंवेदनेन प्रागनुभूतः सोऽधुना धर्माचरणोन प्रौतिमनुभवन्ननुभूयत इति / ततो यथा भेषजचयोपभोगमाहात्म्येनैव रोरकालाभ्यस्ततच्छताक्लोवतालौल्यशोकमोहभ्रमादौन भावान् विरहय्य स वनोपको मनागदारचित्तः संपन्न इत्युक्तं तथायमपि जीवो ज्ञानाद्यभ्यासप्रभावेनैवानादिकालपरिचितानपि तुच्छतादिभावानवधौर्यकिञ्चिन्माचं स्पोतमानम इव संजात इत्युक्तमिति लक्ष्यते। यत्युन For Private And Personal Use Only