________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। 139 मोदहेतश्चैत्यमंघादिपूजाप्रधानोऽन्येषामपि सन्मार्गप्रवृत्तिकारणभूतो महानुस्तव इति / तथा संजायते गुरूणामपि समुत्तारितोऽस्माभिरयं संसारकान्तारादिति भावनया चित्तपरितोषः। ततः प्रवर्द्धते तेषामस्योपरि गुरुतरा दया तत्प्रमादादेवास्य जीवस्य विमलतरीभवति सद्बुद्धिः ततस्तादृशमदनुष्ठानविलोकनेन लोकतो वर्णवादोत्पत्तिः संपद्यते प्रवचनोझामना। ततश्चेद तेन समानं विज्ञेयं यदवाचि कथानके / यदुत / धर्मबोधकरो हृष्टस्तद्दयाप्रमदोद्धरा। सहुद्धिर्वद्भुितानन्दा मुदितं राजमन्दिरम् // ततोऽङ्गीकृतमन्दराकारविरतिमहाभारमेनं जौवं तदा साधन्ते भक्तिभरनिर्भरतया रोमाञ्चाञ्चितवपुषो भव्यलोकाः / यदुत धन्यः कृतार्थोऽयं सुलब्धमस्य महात्मनो जन्म यस्यास्य सत्प्रवृत्तिदर्शनेन निशौयते मंजाता भगवदालोकना संपन्नः सद्धर्मसूरिपादप्रसादः तत एवाविर्भूता सुन्दरबुद्धिः ततः कृतोऽनेन वहिरन्तरङ्गमङ्गत्याग: स्वीकृतं ज्ञानादित्रयं निर्दलितप्राया रागादयः महापुण्यवतामेष व्यतिकरः संभवति। ततोऽयं जौवः सपुण्यक इति जनैस्तदा सयुक्तिकमभिधीयत इति / ततस्तदनन्तरं यदुक्तं यथा तस्य वनौपकस्यापथ्याभावेनास्ति परिस्पुटा देहे रोगपौडा यदि स्यात्पूर्वदोषजा क्वचिदवसरे मापि सूक्ष्मा भवति तथा झटिति निवर्त्तते तच्च चारुभेषजत्रयमनवरतमासेवते ततस्तस्य तिबलादीनि बर्द्धन्ने केवलं बहुवाट्रोगमन्ततेर्नाद्यापि नौरोगो भवति विशेषस्तु महान् संपन्नः / For Private And Personal Use Only