SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / 141 रभिहितं यदुत तेन वनोपकेन मा सद्बुद्धिः पृष्ठा हृष्टेन यथा भने केन कर्मणा मयैतझेषजत्रयमवाप्तं तयोक्तं स्वयं दत्तमेवात्र लोके लभ्यते तदेतज्जन्मान्तरे क्वचिद्दत्तपूर्वं त्वयेति। ततस्तेन चिन्तितं यदि दत्तं लभ्यते ततः पुनरपि महता यत्नेन सत्पात्रेभ्यः प्रयच्छामि येनेदं मकलकल्याण हेतुभूतं जन्मान्तरेऽपि ममाक्षय्यं संपद्यत इति / तदिदमत्रापि जीवे ममानं वर्त्तते / तथा हि / ज्ञानदर्शनचारित्राचरणजनितं प्रशमानन्दं वेदयमानोऽयं जीवः सद्बुद्धिप्रसादादेवेदमाकलयति / यदुत यदिदं ज्ञानादित्रयमशेषकल्याणपरम्परासंपादकमतिदुर्लभमपि मया कथंचिदवाप्तं नेदं प्राचीनाशुभाचरणयतिरेकेण घटते तदस्यानुगुणं विहितं मया प्रागपि किंचिदवदातं कर्म येनेदमामादितमिति ततश्यमाविर्भवत्यस्य चिन्ता / यदुत कथं पुनरेतत्सकलकास्लमविच्छेदेन मया लस्यते ततोऽयमेतदानमेवास्य लाभकारणं निश्चिनुते ततोऽवधारयत्येवं प्रयच्छामोदमधुना यथाशक्ति सत्पात्रेभ्यो येन संपद्यते मे समौ हितमिद्धिरिति / यथा चामौ द्रमकस्तथा चिन्तयन्नपि महाराजाद्यभिमतोऽहमित्यवले पेनेदं मन्यते / यदुत यदि मां कश्चिदागत्य प्रार्थयिष्यति ततोऽहं दास्यामि नेतरथेत्यभिप्रायेण च दित्सुरपि याचकं प्रतीक्षमाणश्चिरकालमवतिष्ठते स्म तत्र च मन्दिरे ये लोकास्तेषां तद्भेषजत्रयं चारुतरमस्त्येव / येऽपि तत्र तत्कालप्रविष्टतया तेन विकलास्त एव तद्भरि लभन्ते। ततोऽसौ वनौपको दिशो निभालयन्नास्ते न कश्चित्तज्जिक्षया तत्समीपमुपतिष्ठत इति। तथायमपि जीवश्चिन्तयति / यदुत विद्यते मे भगवदव For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy