SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। तथा हि / यदायं जीवो विदितप्रशमसुखाखादो भवति भवप्रपञ्चाविरक्तचित्तस्तथापि केनचिदालम्बनेन ग्रहमधिवसति तदा करोत्येव विशिष्टतरं तपोनियमाभ्यास स एष परमानाभ्यवहारोऽभिधीयते / यत्तु तस्यामवस्थायामनादरेणार्थोपार्जनं कामासेवनं वा तल्लोलया कदशनप्राशन मिति विज्ञेयम् / ___ ततो यदा भार्या वा व्यलोकमाचरेत् पुत्रो वा दुर्विनौततां कुर्यात् दुहिता वा विनयमतिलंघयेत् भगिनौ वा विपरीतचारितामनुचेष्टेत भ्राता वा धर्मद्वारेण धनव्ययं विधीयमानं न बहु मन्यते जननौजनकौ वा सहकर्त्तव्येषु शिथिलोऽयमिति जनसमक्षमाकोशेतां वन्धुवर्गो वा व्यभिचारं भजेत परिकरो वाज्ञां प्रतिकूलयेत् स्वदेहो वातिलालितपालितोऽपि खलजनवट्रोगादिकं विकारमादर्शयेत् धननिचयो वा अकाण्ड एवं विद्युल्लताविलसित मनुविदध्यात् तदास्य जीवस्य परमानवतस्येव कृभोजनमेष समस्तोऽपि संसारविस्तरः सुतरां यथावस्थितस्वरूपेण मनसि प्रतिभासयेत् / ततस्तदायं विविकेन चेतमा प्रादुर्भुतसंवेगस्मन्नैवं भावयेत् / अये यदर्थमहं विज्ञातपरमार्थोऽपि खकार्यमवधौर्य मदनमधिवमामि तदास्य खजनधनादेरेवंविधः परिणामः तथापि ममापर्यालोचितकारिणो नास्योपरिखेहमोहः प्रवर्त्तमानो निवर्त्तते / नूनमविद्याविलसितमेवेदं यदीदृशेऽप्यत्र चेतमः प्रतिबन्धः तत्किमर्थमनर्थव्यामूढहृदयः खल्वरमात्मानं वच्चयामि। तस्मानमुञ्चामौदं सकलं जम्बालकल्यं कोशिकाकारकौटस्येवात्मबन्धनमात्रफलं बहिरन्तरङ्गसङ्गकदम्बकं यद्यपि यदा यदा पर्यालोच्यते तदा तदा विषय 18 For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy