________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 उपमितिभवप्रपञ्चा कथा। मपथ्यं सेवते तदा ते रोगाः क्वचिदात्मीयं विकारं दर्शयन्तः शूलदाहमूर्छारोचकादौनि जनयन्ति ततस्तैरमौ बाध्यत इति / तदत्रापि जौवे समानमवबोद्धव्यम् / __ तथा हि। यथा कचिदवसरे चातुर्मासकादौ दयापरौतचित्ता गुरवोऽस्य जीवस्य पुरतो विशिष्टतरविरतियाहणार्थमणवतविधि विस्फारयन्ति तदाप्ययं जीवः प्रबलचारित्रावरणतया मन्दवौ-- लामस्तोत्रसंवेगेन कानिचिदेव व्रतानि ग्टलाति तदिदं बहोर्दत्तस्य स्तोकभक्षणमभिधीयते। कानिचित्पुनव्रतानि दयापरौतगुरूपरोधेन मनसोऽनभिप्रेतान्यव्यङ्गीकरोति मोऽयं शेषस्य भोजने निक्षेपो द्रष्टव्यः / तच बताङ्गीकरणं मन्दसंवेगेनापि क्रियमाणमनुषङ्गत एव विषयधनादौन्यत्र भवे भवान्तरे वाभिवर्द्धयति तदिदं परमानमन्निधानेनेतरस्थाभिवर्द्धनमभिहितम् / ते च तत्प्रभावसंपन्ना विषयादयो दृढकारणतयानवरतं भुनानस्थाप्यस्य जीवस्य न निष्ठां प्रतिपद्यन्ते। ततोऽयं जौवः सुरनरभवेषु वर्तमानस्तां तथाभूतामात्मविभूतिमुपलभ्य हर्षमुबहति। न चायं वराको लक्ष्यति यथैते धनविषयादयो धर्ममाहात्म्येन ममोपनमन्ते तत्किमत्र हर्षण स एव भगवान् धर्मः कत्तुं युक्त इति ततोऽयमलक्षितमभावस्तेषु विषयादिषु प्रतिबद्धचित्तो ज्ञानदर्शनदेशचारिचाणि शिथिलयति। केवलं जाननप्यजानान व मोहदोषेण निरर्थकं कालमतिवाहयति / एवं चास्य वर्तमानस्य द्रविणदिषु प्रतिबद्धमानमस्य धर्मानुष्ठाने मन्दादरस्य भूयसापि कालेन रागादयो भावरोगा नैव संविद्यन्ते किं तु तावतापि सदनुष्ठानेन गुरूपरोधतो For Private And Personal Use Only