________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। 125 वमेयम् / तथा हि। गुरोः सम्बन्धिनौ दया सम्पादयत्येवास्य जीवस्यानारतं विशेषतो ज्ञानादौनि। तथापि कर्मपरतन्त्रतया धनादिषु मूर्छितचित्तोऽयं न तानि सम्यग् बहु मन्यते / अन्यच्च / यथासौ कथानकोको मोहवशेन तत् कुभोजनं भूरि भुते तद्दयादत्तं पुनः परमानमुपदंशकल्यं कल्पयति। तथायमपि जीवो महामोहाभातमानमो धनोपार्जनविषयोपभोगादिषु गाढमाद्रीयते गुरुदययोपनौतं तु ब्रतनियमादिकमनादरेणान्तरान्तरा सेवते वा न वा। यथासौ तद्दयोपरोधेन तदञ्जनं क्वचिदेव नेत्रयोर्निधत्ते तथायमपि जीवः सद्गुरुभिरनुकम्पया प्रेर्यमाणोऽपि यदि परं तदनुरोधेनैव प्रवर्त्तते तथा ज्ञानमभ्यस्थति तदपि क्वचिदेव न सर्वदा यथा चासौ तत्तौAदकं पातुं तवचनेनैव प्रवर्त्तते तथायमपि जौवः प्रमादपरायत्ततयानुकम्पापरगुरुचोदनयैव सम्यग्दर्शनमुत्तरोत्तरविशेषैरुद्दीपयति न खोत्साहेनेति। यत्तु विशेषेण पुनरभिहितं यथा म वनौपकः संभ्रमेण तद्दयया भूरि वितीर्णं तत्परमानं स्तोकं भुक्ता शेषमनादरेण स्वभाजने विधत्ते तत्सानिध्येन तत्कदनमभिवर्द्धते ततस्तभक्षयतोऽपि दिवानिशं न निष्ठां याति ततोऽसौ तस्यति न च जानौते कस्येदं माहात्म्यं केवलं तच ग्टद्धात्मा भेषजत्रयस्य परिभोगं शिथिलयन् कालं नयति। तथा चापथ्यभोजिनस्तस्य ते रोगा नोच्छिद्यन्ते केवलं यदन्तरान्तरा तद्दयोपरोधेन तत्परमानादिकमसौ मनाग प्राशयति तावन्मात्रेण ते रोगा याप्यावस्थां गतास्तिष्ठन्ति यदा पुनरनात्मजतया भृशतर For Private And Personal Use Only